अन्योन्यस्याविरोधेन प्राप्यन्ते वै नृपैः समम्। अर्थो धर्मश्च कामश्च यशो विजय एव च ।। ५७.
ऐश्वर्येणाणिमाद्येन प्रभुशक्त्या तथैव च। अन्येन तपसा चैव ऋषीनभिभवन्ति च। बलेन तपसा चैव देवदानवामानुषान् ।। ५७.
लक्षणैश्चापि जायन्ते शरीरस्थैरमानुषैः। केशस्थिता ललाटोर्णा जिह्वा चास्यप्रमार्जनी। ताम्रप्रभोष्ठदन्तोष्ठाः श्रीवत्साश्चोर्द्ध्वरोमशाः ।। ५७.
आजानुबाहनश्चैव जालहस्ता वृषाङ्किताः। न्यग्रोधपरिणाहाश्च सिंहस्कन्धाः सुमेहनाः । गजेन्द्रगतयश्चैव महाहनव एव च ।। ५७.
पादयोश्चक्रमत्स्यौ तु शङ्खपद्मौ तु हस्तयोः। पञ्चाशीतिसहस्राणि ते भवन्त्यजरा नृपाः ।। ५७.
असङ्गा गतयस्तेषां चतस्रश्चक्रवर्त्तिनाम्। अन्तरिक्षे समुद्रे च पाताले पर्वतेषु च ।। ५७.
इज्या दानं तपः सत्यं त्रेतायां धर्म उच्यते । तदा प्रवर्त्तते धर्मो वर्णाश्रमविभागशः ।। ५७.
मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्त्तते । हृष्टपुष्टाः प्रजाः सर्वा ह्यरोगाः पूर्णमानसाः ।। ५७.
एको वेदश्चतुष्पादस्त्रेतायुगविधौ स्मृतः। त्रीणि वर्षसहस्राणि तदा जीवन्ति मानवाः ।। ५७.
पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण तु । एष त्रेतायुगे धर्मस्त्रेतासन्धौ निबोधत ।। ५७.
त्रेतायुग स्वभावस्तु सन्ध्यापादेव वर्त्तते । सन्ध्यायां वै स्वभावस्तु युगपादेन तिष्ठति ।। ५७.
कथं त्रेतायुगमुखे यज्ञस्यासीत्प्रवर्तनम्। पूर्वं स्वायम्भुवे सर्गे यथावत्तद्ब्रवीहि मे ।। ५७.
अन्तर्हितायां सन्ध्यायां सार्द्धं कृतयुगेन वै। कलाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा। वर्णाश्रमव्यवस्थानं कृतवन्तश्च वै पुनः ।। ५७.
सम्भारांस्तां श्च सम्भृत्य कथं यत्रः प्रवर्तितः। एतच्छ्रुत्वाब्रवीत्सूतः श्रूयतां शांशपायन ।। ५७.
iयथा त्रेतायुगमुखे यज्ञस्यासीत्प्रवर्तनम्। ओषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने। प्रतिष्ठितायां वार्तायां गृहाश्रमपुरेषु च ।। ५७.
वर्णाश्रम व्यवस्थानं कृत्वा मन्त्रांश्च संहिताम्। मन्त्रान् संयोजयित्वाथ इहामुत्रेषु कर्मसु ।। ५७.
तथा विश्वमुगिन्द्रस्तु यज्ञं प्रावर्तयत्तदा। दैवतैः सहितः सर्वैः सर्वसम्भारसम्भृतम् ।। ५७.
अथाश्वमेधे वितते समाजग्मुर्महर्षयः। यजन्ते पशुभिर्मेध्यैर्हुत्वा सर्वे समागताः ।। ५७.
कर्मव्यग्रेषु ऋत्विक्षु सतते यज्ञकर्मणि। सम्प्रगीतेषु तेष्वेवमागमेष्वथ सत्वरम् ।। ५७.
परिक्रान्तेषु लघुषु अध्वर्युवृषभेषु च। आलब्धेषु च मेध्येषु तथा पशुगणेषु वै ।। ५७.
हविष्यग्नौ हूयमाने देवानां देवहोतृभिः। आहूतेषु च देवेषु यज्ञभाक्षु महात्मसु ।। ५७.
य इन्द्रियात्मका देवा यज्ञभाजस्तथा तु ये। तान् यजन्ते तदा देवाः कल्पादिषु भवन्ति ये ।। ५७.
अध्वर्यवः प्रैषकाले व्युत्थिता ये महर्षयः। महर्षयस्तु तान् दृष्ट्वा दीनान् पशुगणान् स्थितान् । पप्रच्छुरिन्द्रं सम्भूय कोऽयं यज्ञविधिस्तव ।। ५७.
अधर्मो बलवानेष हिंसाधर्मेप्सया तव। नेष्टः पशुवधस्त्वेष तव यज्ञे सुरोत्तम ।। ५७.
अधर्मो धर्मगाताय प्रारब्धः पशुभिस्त्वया। नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ।। ५७.
आगमेन भवान् यज्ञं करोतु यदिहेच्छसि। विधिदृष्टेन यज्ञेन धर्ममव्ययहेतुना। यज्ञबीजैः सुरश्रेष्ठ येषु हिंसा न विद्यते ।। ५७.
त्रिवर्षपरमं कालमुषितैरप्ररोहिभिः। एष धर्मो महानिन्द्र स्वयम्भुविङितः पुरा ।। ५७.
एवं विश्वभुगिन्द्रस्तु मुनिभिस्तत्त्वदर्शिभिः। जङ्गमैः स्थावरैर्वेति कैर्यष्टव्यमिहोच्यते ।। ५७.
ते तु खिन्ना विवादेन तत्त्वयुक्ता महर्षयः। सन्धाय वाक्यमिन्द्रेण प्रपच्छुश्चेश्वरं वसुम् ।। ५७.
महाप्राज्ञ कथं दृष्टस्त्वया यज्ञविधिर्नृप। उत्तानपादे प्रब्रूहि संशयं छिन्धि नः प्रभो ।। ५७.