प्रणाशे त्वथ सिद्धीनामप्यासाञ्च प्रवर्त्तनम्। आसन् मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः। तेमन्त्रा वै पुनस्तेषां प्रतिभाससमुत्थिताः ।। ५७.
ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणानि च। सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्तं धर्मं मनुर्जगौ ।। ५७.
त्रेतादौ संहिता वेदाः केवला धर्मशेषतः। संरोधादायुषश्चैव व्यस्यन्ते द्वापरेषु ते ।। ५७.
ऋषयस्तपसा देवाः कलौ च द्वापरेषु वै। अनादिनिधना दिव्याः पूर्वं सृष्टाः स्वयम्भुवा ।। ५७.
सधर्माः सप्रजाः साङ्गा यथाधर्मं युगे युगे। विक्रीडन्ते समानार्था वेदवादा यथायुगम् ।। ५७.
आरम्भयज्ञा क्षत्रस्य हविर्यज्ञा विशाम्पतेः। परिचार यज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः ।। ५७.
तथा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः। क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा ।। ५७.
ब्राह्मणाननुवर्त्तन्ते क्षत्रियाः क्षत्रियान् विशः। वैश्यानुवर्तिनः शूद्राः परस्परमनुव्रताः ।। ५७.
शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा। सङ्कल्पितेन मनसा वाचोक्तेन स्वसर्मणा। त्रेतायुगे त्वविकलः कर्म्मारम्भः प्रसिद्ध्यति ।। ५७.
आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता। सर्वसाधारणा ह्येते त्रेतायां वै भवन्त्युत ।। ५७.
वर्णाश्रमव्यवस्थानं तेषां ब्रह्मा तथाकरोत् । पुनः प्रजास्तु ता मोहात्तान् धर्मान्न ह्यपालयन् ।। ५७.
परस्परविरोधेन मनुन्ताः पुनरन्वयुः। मनुः स्वायम्भुवो दृष्ट्वा याथातथ्यं प्रजापतिः ।। ५७.
धाता तु शतरूपायाः पुमान् स उदपादयत्। प्रियव्रतोत्तानपादौ प्रधमन्तौ महीपती ।। ५७.
ततः प्रभृति राजान उत्पन्ना दण्डधारिणः। प्रजानां रञ्जनाच्चैव राजानस्त्वभवन्नृषाः ।। ५७.
प्रच्छन्नपापा ये जेतुमशक्या मनुजा भुवि। धर्मसंस्थापनार्थाय तेषां शास्त्रे तपो मया ।। ५७.
वर्णानां प्रविभागाश्च त्रेतायां संप्रकीर्तिताः। संहिताश्च ततो मन्त्रा ऋषभिर्ब्रह्मणैस्तु ते ।। ५७.
यज्ञः प्रवर्तितश्चैव तदा ह्येवन्तु दैवतैः। यामैः शुक्लैर्जपैश्चैव सर्वसम्भारसंवृतैः ।। ५७.
सार्द्धं विश्वभुजा चैव देवेन्द्रेण महौजसा। स्वायम्भुवेऽन्तरे देवैर्यज्ञास्ते प्राक् प्रवर्तिताः ।। ५७.
सत्यं जपस्तपो दानं त्रेतायां धर्म उच्यते। क्रिया धर्मश्च ह्रसते सत्यधर्मः प्रवर्त्तते ।। ५७.
प्रजायन्ते ततः शूरा आयुष्मन्तो महाबलाः। न्यस्तदण्डमहाभागा यज्वानो ब्रह्मवादिनः ।। ५७.
पद्म पत्रायताक्षाश्च पृथूरस्काः सुसंहिताः। सिंहान्तका महासत्त्वा मत्तमातङ्गगामिनः ।। ५७.
महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्तिनः। सर्वलक्षणसम्पन्ना न्यग्रोधपरिमण्डलाः ।। ५७.
न्यग्रोधौ तौ स्मृतौ बाहू व्यामो न्यग्रोध उच्यते। वामेनैवोच्छ्रयाद्यस्य सम ऊर्द्ध्वन्तु देहिनः। समुच्छ्रयः परीणाहो ज्ञेयो न्यग्रोधमण्डलः ।। ५७.
चक्रं रथो मणिर्भार्या निधिरश्चागजास्तथा। सप्तातिशयरत्नानि सर्वेषाञ्चक्रवर्त्तिनाम् ।। ५७.
thumb|400px|चक्रवर्ती thumb|400px|चतुर्दशरत्नानि चक्रं रथो मणिः खड्गं धनूरत्नञ्च पञ्चमम्। केतुर्निधिश्च सप्तैते प्राणहीनाः प्रकीर्त्तिताः ।। ५७.
भार्या पुरोहितश्चैव सेनानी रथकृच्च यः। मन्त्र्यश्वः कलभश्चैव प्राणिनः सम्प्रकीर्त्तिताः ।। ५७.
रत्नान्येतानि दिव्यानि संसिद्धानि महात्मनाम्। चतुर्दश विधेयानि सर्वेषां चक्रवार्तिनाम् ।। ५७.
विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्त्तिनः। मन्वन्तरेषु सर्वेषु अतीतानागतेषु वै ।। ५७.
भूतभव्यानि यानीह वर्त्तमानानि यानि च। त्रेतायुगादिकेष्वत्र जायन्ते चक्रवर्त्तिनः ।। ५७.
भद्राणीमानि तेषां वै भवन्तीह महीक्षिताम्। अद्भुतानि च चत्वारि बलं धर्मः सुखं धनम् ।। ५७.