सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु। विंशतिश्च सहस्राणि कालोऽयं साधिकां विना ।। ५७.
मन्वन्तरस्य सङ्ख्यैषा सङ्ख्याविद्भिर्द्विजैः स्मृता। मन्वन्तरस्य कालोऽयं युगैः सार्द्धं प्रकीर्तितः ।। ५७.
चतुः सहस्रयुक्तं वै प्रथमन्तत् कृतं युगम्। त्रेतावशिष्टं वक्ष्यामि द्वापरं कलिमेव च ।। ५७.
युगपत्समवेतार्थो द्विधा वक्तुं न शक्यते। क्रमागतं मया ह्येतत्तुभ्यं प्रोक्तं युगद्वयम्। ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथैव च ।। ५७.
तत्र त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ते। श्रौतं स्मार्त्तञ्च धर्मञ्च ब्रह्मणा च प्रचोदितम् ।। ५७.
दाराग्निहोत्रसंयोगमृग्यजुः सामसंज्ञितम्। इत्यादिलक्षणं श्रौतं धर्मं सप्तर्षयोऽब्रुवन् ।। ५७.
परस्परागतं धर्मं स्मार्त्तञ्चाचारलक्षणम्। वर्णाश्रमाचारयुतं मनुः स्वायम्भुवोऽब्रवीत् ।। ५७.
सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै। तेषां सुतप्ततपसामार्षेयेण क्रमेण तु ।। ५७.
सप्तर्षीणां मनोश्चैव आद्ये त्रेतायुगस्य तु । अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च ।। ५७.
अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः। आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ।। ५७.
प्रणाशे त्वथ सिद्धीनामप्यासाञ्च प्रवर्त्तनम्। आसन् मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः। तेमन्त्रा वै पुनस्तेषां प्रतिभाससमुत्थिताः ।। ५७.
ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणानि च। सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्तं धर्मं मनुर्जगौ ।। ५७.
त्रेतादौ संहिता वेदाः केवला धर्मशेषतः। संरोधादायुषश्चैव व्यस्यन्ते द्वापरेषु ते ।। ५७.
ऋषयस्तपसा देवाः कलौ च द्वापरेषु वै। अनादिनिधना दिव्याः पूर्वं सृष्टाः स्वयम्भुवा ।। ५७.
सधर्माः सप्रजाः साङ्गा यथाधर्मं युगे युगे। विक्रीडन्ते समानार्था वेदवादा यथायुगम् ।। ५७.
आरम्भयज्ञा क्षत्रस्य हविर्यज्ञा विशाम्पतेः। परिचार यज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः ।। ५७.
तथा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः। क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा ।। ५७.
ब्राह्मणाननुवर्त्तन्ते क्षत्रियाः क्षत्रियान् विशः। वैश्यानुवर्तिनः शूद्राः परस्परमनुव्रताः ।। ५७.
शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा। सङ्कल्पितेन मनसा वाचोक्तेन स्वसर्मणा। त्रेतायुगे त्वविकलः कर्म्मारम्भः प्रसिद्ध्यति ।। ५७.
आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता। सर्वसाधारणा ह्येते त्रेतायां वै भवन्त्युत ।। ५७.
वर्णाश्रमव्यवस्थानं तेषां ब्रह्मा तथाकरोत् । पुनः प्रजास्तु ता मोहात्तान् धर्मान्न ह्यपालयन् ।। ५७.
परस्परविरोधेन मनुन्ताः पुनरन्वयुः। मनुः स्वायम्भुवो दृष्ट्वा याथातथ्यं प्रजापतिः ।। ५७.
धाता तु शतरूपायाः पुमान् स उदपादयत्। प्रियव्रतोत्तानपादौ प्रधमन्तौ महीपती ।। ५७.
ततः प्रभृति राजान उत्पन्ना दण्डधारिणः। प्रजानां रञ्जनाच्चैव राजानस्त्वभवन्नृषाः ।। ५७.
प्रच्छन्नपापा ये जेतुमशक्या मनुजा भुवि। धर्मसंस्थापनार्थाय तेषां शास्त्रे तपो मया ।। ५७.
वर्णानां प्रविभागाश्च त्रेतायां संप्रकीर्तिताः। संहिताश्च ततो मन्त्रा ऋषभिर्ब्रह्मणैस्तु ते ।। ५७.
यज्ञः प्रवर्तितश्चैव तदा ह्येवन्तु दैवतैः। यामैः शुक्लैर्जपैश्चैव सर्वसम्भारसंवृतैः ।। ५७.
सार्द्धं विश्वभुजा चैव देवेन्द्रेण महौजसा। स्वायम्भुवेऽन्तरे देवैर्यज्ञास्ते प्राक् प्रवर्तिताः ।। ५७.
सत्यं जपस्तपो दानं त्रेतायां धर्म उच्यते। क्रिया धर्मश्च ह्रसते सत्यधर्मः प्रवर्त्तते ।। ५७.
प्रजायन्ते ततः शूरा आयुष्मन्तो महाबलाः। न्यस्तदण्डमहाभागा यज्वानो ब्रह्मवादिनः ।। ५७.