मानुषञ्च शतं विद्धि दिव्यमासास्त्रयस्तु ते। दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः ।। ५७.
त्रीणि पर्षशतान्येव षष्टिवर्षाणि यानि च। दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्त्तितः ।। ५७.
त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः। त्रिंशद्यानि तु वर्षाणि मतः सप्तर्षिवत्सरः ।। ५७.
नव यानि सहस्राणि वर्षाणां मानुषाणि तु । अन्यानि नवतिश्चैव क्रौञ्चः संवत्सरः स्मृतः ।। ५७.
षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि तु । वर्षाणान्तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः ।। ५७.
त्रीण्येव नियुतान्येव वर्षाणां मानुषाणि च। षष्टिश्चैव सहस्राणि सङ्ख्यातानि तु सङ्ख्यया। दिव्यवर्षसहस्रन्तु प्राहुः सङ्ख्याविदो जनाः ।। ५७.
इत्येवमृषिभिर्गीतं दिव्यया सङ्ख्ययान्वितम्। दिव्येनैव प्रमाणेन युगसङ्कचाप्रकल्पनम् ।। ५७.
चत्वारि भारते वर्षे युगानि कवयो विदुः। पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते। द्वापरश्च कलि श्चैव युगान्येतानि कल्पयेत् ।। ५७.
चत्वार्याहुः सहस्राणि वर्षाणान्तु कृतं युगम्। तत्र तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ।। ५७.
इत रासु च सन्ध्यासु सन्ध्यांशेषु च वै त्रिषु । एकापायेन वर्त्तन्ते सहस्राणि शतानि च ।। ५७.
त्रेता त्रीणि सहस्राणि सङ्ख्यैव परिकीर्त्यते। तस्यास्तु त्रिशती सन्ध्या सन्ध्यांशश्च तथाविधः ।। ५७.
द्वापरं द्वे सहस्रे तु युगमाहुर्मनीषिणः । तस्यापि द्विशती सन्ध्या सन्धयांशः सन्ध्यया समः ।। ५७.
कलिं वर्षसहस्रन्तु युगमाहुर्मनीषिणः। तस्याप्येकशती सन्ध्या सन्ध्यया समः ।। ५७.
एषा द्वादशसाहस्री युगाख्या परिकीर्त्तिता। कृतं त्रेता द्वापरञ्च कलिश्चैव चतुष्टयम् ।। ५७.
अत्र संवत्सराः सृष्टा मानुषेण प्रमाणतः। कृतस्य तावद्वक्ष्यामि वर्षाणां तत्प्रमाणतः ।। ५७.
सहस्राणां शतान्यत्र चतुर्दश तु सङ्ख्यया। चत्वारिंशत् सहस्राणि कलिकालयुगस्य तु ।। ५७.
एवं सङ्ख्यातकालश्च कालेष्विह विशेषतः। एवं चतुर्युगः कालो विना सन्ध्यांशकैः स्मृतः ।। ५७.
चत्वारिंशत्र्त्रीणि चैव नियुतानि च सङ्ख्यया । विंशतिश्च सहस्राणि ससन्ध्यांशश्चतुर्युगः ।। ५७.
एवं चतुर्युगाख्या तु साधिका ह्येकसप्ततिः। कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते ।। ५७.
मन्वन्तरस्य सङ्ख्या तु वर्षाग्रेण निबोधत। त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्तिताः ।। ५७.
सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु। विंशतिश्च सहस्राणि कालोऽयं साधिकां विना ।। ५७.
मन्वन्तरस्य सङ्ख्यैषा सङ्ख्याविद्भिर्द्विजैः स्मृता। मन्वन्तरस्य कालोऽयं युगैः सार्द्धं प्रकीर्तितः ।। ५७.
चतुः सहस्रयुक्तं वै प्रथमन्तत् कृतं युगम्। त्रेतावशिष्टं वक्ष्यामि द्वापरं कलिमेव च ।। ५७.
युगपत्समवेतार्थो द्विधा वक्तुं न शक्यते। क्रमागतं मया ह्येतत्तुभ्यं प्रोक्तं युगद्वयम्। ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथैव च ।। ५७.
तत्र त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ते। श्रौतं स्मार्त्तञ्च धर्मञ्च ब्रह्मणा च प्रचोदितम् ।। ५७.
दाराग्निहोत्रसंयोगमृग्यजुः सामसंज्ञितम्। इत्यादिलक्षणं श्रौतं धर्मं सप्तर्षयोऽब्रुवन् ।। ५७.
परस्परागतं धर्मं स्मार्त्तञ्चाचारलक्षणम्। वर्णाश्रमाचारयुतं मनुः स्वायम्भुवोऽब्रवीत् ।। ५७.
सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै। तेषां सुतप्ततपसामार्षेयेण क्रमेण तु ।। ५७.
सप्तर्षीणां मनोश्चैव आद्ये त्रेतायुगस्य तु । अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च ।। ५७.
अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः। आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ।। ५७.