इत्ये ते पितरो देवा देवाश्च पितरश्च वै। ऋतार्त्तवा अनेके तु अन्योन्यपितरः स्मृताः ।। ५६.
एते तु पितरो देवा मानुषाः पितरश्च ये। प्रीतेषु तेषु प्रीयन्ते श्रद्धायुक्तेन कर्मणा ।। ५६.
इत्येवं पितरः प्रोक्ताः पिदॄणां सोमपायिनाम्। एतत् पितृमतत्वं हि पुराणे निश्चयो मतः ।। ५६.
इत्यर्कपितृ सोमानामैलस्य च समागमः। सुधामृतस्य चावाप्तिः पितॄणाञ्चैव तर्पणम् ।। ५६.
पूर्णिमावास्ययोः कालः पितॄणां स्थानमेव च। समासात्कीर्त्तितस्तुभ्यमेष सर्गः सनातनः ।। ५६.
वैश्वरूप्यन्तु सर्वस्य कथित़ञ्चैकदेशिकम्। न शक्यं परिसङ्ख्यातुं श्रद्धेयं भूतिमिच्छता ।। ५६.
स्वायम्भुवस्य हीत्येष सर्गः क्रान्तो मयात्र वै। विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ।। ५६.
चतुर्युगानि यान्यासन् पूर्वं स्वायम्भुवेऽन्तरे । तेषां निसर्गं तत्त्वञ्च श्रोतुमिच्छामि विस्तरात् ।। ५७.
पृथिव्यादिप्रसङ्गेन यन्मया प्रागुदाहृतम्। तेषाञ्चतुर्युगं ह्येतत् प्रवक्ष्यामि निबोधत ।। ५७.
सङ्ख्ययेह प्रसङ्ख्याय विस्ताराच्चैव सर्वशः। युगञ्च युगभेदञ्च युगधर्मन्तथैव च ।। ५७.
युगसन्ध्यंशकञ्चैव युगसन्धानमेव च। षट्प्रकारयुगाख्यानां प्रवक्ष्यामीह तत्त्वतः ।। ५७.
लौकिकेन प्रमाणेन विबुद्धोऽब्दस्तु मानुषः। तेनाब्देन प्रसङ्ख्याय वक्ष्यामीह चतुर्युगम् ।। ५७.५ . निमेषकालः काष्ठा च कलाश्चापि मुहूर्त्तकाः। निमेषकालतुल्यं हि विद्याल्लघ्वक्षरञ्चयत् ।। ५७.
काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत् कलास्ताः। त्रिंशत् कलाश्चैव भवेन्मुहूर्त्तास्तत्र्त्रिंशता रात्र्यहनी समेते ।। ५७.
अहोरात्रे विभजते सूर्यो मानुषदैविके। तत्राहः कर्मचेष्टायां रात्रिः स्वप्नाय कल्प्यते ।। ५७.
पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः। कृष्ण पक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ।। ५७.
त्रिंशच्च मानुषा मासाः पित्र्यो मासश्च स स्मृतः। शतानि त्रीणि मासानां षष्टया चाप्यधिकानि वै। पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ।। ५७.
मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् । पिदॄणां त्रीणि वर्षाणि सङ्खयातानीह तानि वै। चत्वार श्चाधिका मासाः पित्रे चैवेह कीर्त्तिताः ।। ५७.
लोकिकेनैव मानेन अब्दो यो मानुषः स्मृतः। एतद्दिव्यमहोरात्रं शास्त्रेऽस्मिन् निश्वयो मतः ।। ५७.
दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ।। ५७.
ये ते रात्र्यहनी दिव्ये प्रसङ्खयाते तयोः पुनः। त्रिंशच्च तानि वर्षाणि दिव्यो मासस्तु स स्मृतः ।। ५७.
मानुषञ्च शतं विद्धि दिव्यमासास्त्रयस्तु ते। दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः ।। ५७.
त्रीणि पर्षशतान्येव षष्टिवर्षाणि यानि च। दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्त्तितः ।। ५७.
त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः। त्रिंशद्यानि तु वर्षाणि मतः सप्तर्षिवत्सरः ।। ५७.
नव यानि सहस्राणि वर्षाणां मानुषाणि तु । अन्यानि नवतिश्चैव क्रौञ्चः संवत्सरः स्मृतः ।। ५७.
षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि तु । वर्षाणान्तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः ।। ५७.
त्रीण्येव नियुतान्येव वर्षाणां मानुषाणि च। षष्टिश्चैव सहस्राणि सङ्ख्यातानि तु सङ्ख्यया। दिव्यवर्षसहस्रन्तु प्राहुः सङ्ख्याविदो जनाः ।। ५७.
इत्येवमृषिभिर्गीतं दिव्यया सङ्ख्ययान्वितम्। दिव्येनैव प्रमाणेन युगसङ्कचाप्रकल्पनम् ।। ५७.
चत्वारि भारते वर्षे युगानि कवयो विदुः। पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते। द्वापरश्च कलि श्चैव युगान्येतानि कल्पयेत् ।। ५७.
चत्वार्याहुः सहस्राणि वर्षाणान्तु कृतं युगम्। तत्र तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ।। ५७.
इत रासु च सन्ध्यासु सन्ध्यांशेषु च वै त्रिषु । एकापायेन वर्त्तन्ते सहस्राणि शतानि च ।। ५७.