धनञ्जयस्य च पुरं माहेन्द्रस्य महात्मनः । कालियस्य च नागस्य नगरं कलसस्य च ॥ ५०.
There is the city of Dhanañjaya, the great-souled Mahendra, the city of the serpent Kāliya, and that of Kalasa.
एवं पुरसहस्राणिं नागदानवरक्षसाम्। तले ज्ञेयानि प्रथमे कृष्णभौमे न संशयः ॥ ५०.
In this way, thousands of cities of Nāgas, Dānavas, and Rākṣasas are to be known in the first region, the black earth—there is no doubt.
द्वितीयेऽपि तले विप्रा दैत्येन्द्रस्य सुरक्षसः। महाजम्भस्य च तथा नगरं प्रथमस्य तु ॥ ५०.
In the second region as well, O sages, is the city of the Daitya lord Surakṣasa, and likewise that of Mahājambha, the foremost.
हयग्रीवस्य कृष्णस्य निकुम्भस्य च मन्दिरम्। शङ्खाख्येयस्य च पुरं नगरं गोमुखस्य च ॥ ५०.
There is the palace of Hayagrīva, of Kṛṣṇa, and of Nikumbha; the city of Śaṅkha, and the town of Gomukha.
राक्षसस्य च नीलस्य मेघस्य क्रथनस्य च। पुरञ्च कुरुपादस्य महोष्णीषस्य चालयम् ॥ ५०.
And the city of the Rākṣasa Nīla, and of Megha, and of Krathana, and the city of Kurupāda, and of Mahoṣṇīṣa.
कम्बलस्य च नागस्य पुरमश्वतरस्य च। कद्रुपुत्रस्य च पुरं तक्षकस्य महात्मनः ॥ ५०.
And the city of Kambala the serpent, and of Aśvatara, and the city of Kadru's son, the great-souled Takṣaka.
एवं पुरसहस्राणि नागदानवरक्षसाम्। द्वितीयेऽस्मिन् तले विप्राः पाण्डुभौमे न संशयः ॥ ५०.
In this way, thousands of cities of serpents, Dānavas, and Rākṣasas exist on this second layer, O sages, on the pale earth, without doubt.
तृतीये तु तलेख्यातं प्रह्लादस्य महात्मनः। अनुह्लादस्य च पुरं देत्येन्द्रस्य महात्मनः ॥ ५०.
On the third layer, it is said, is the city of the great-souled Prahlāda, and the city of Anuhlāda, the great-souled lord of the Daityas.
तारकाख्यस्य च पुरं पुरं त्रिशिरसस्तथा। शिशुमारस्य च पुरं हृष्टपुष्टजनाकुलम् ॥ ५०.
And the city of Tāraka, and likewise the city of Triśiras, and the city of Śiśumāra, crowded with joyful and prosperous people.
च्यवनस्य च विज्ञेयं राक्षसस्य च मन्दिरम्। राक्षसेन्द्रस्य च पुरंकुम्भिलस्य खरस्यच ॥ ५०.
And the residence of Cyavana, and the mansion of the Rākṣasa, and the city of the Rākṣasa king Kumbhila and of Khara.
विराधस्य च क्रूरस्य पुरमुल्कामुखस्य च। हेमकस्य च नागस्य तथा पाण्डुरकस्य च ॥ ५०.
And the city of the fierce Virādha, and of Uḷkāmukha, and of Hemaka the serpent, and also of Pāṇḍuraka.
मणिमन्त्रस्य च पुरं कपिलस्य च मन्दिरम्। नन्दस्य चोरगपतेर्विशालस्य च मन्दिरम् ॥ ५०.
And the city of Maṇimantra, and the residence of Kapila, and the mansion of Nanda, lord of serpents, and of Viśāla.
एवं पुरसहस्राणि नागदानवरक्षसाम्। तृतीयेऽस्मिस्तले विप्राः पीतभौमे न संशयः ॥ ५०.
Thus, thousands of cities of serpents, Dānavas, and Rākṣasas are known to exist on this third layer, O sages, on the yellow earth, without doubt.
चतुर्थे दैत्यसिंहस्य कालनेमेर्महात्मनः। गजकर्णस्य च पुरं नगरं कुञ्जरस्य च ॥ ५०.
On the fourth, is the city of the Daitya lord Kālanemi, the great-souled one, and the city of Gajakarṇa, and the city of Kuñjara.
राक्षसेन्द्रस्य च पुरं सुमालेर्बहुविस्तरम्। मुञ्जस्य लोकनाथस्य वृकवक्त्रस्य चालयम् ॥ ५०.
And the city of the Rākṣasa king Sumāli, vast in extent, and the residence of Muñja, lord of the worlds, and of Vṛkavaktra.
बहुयोजनसाहस्रं बहुपक्षिसमाकुलम् । नगरं वैनतेयस्य चतुर्थेऽस्मिन् रसातले ॥ ५०.
A city extending for thousands of yojanas, teeming with many birds, is the city of Vainateya on this fourth subterranean region.
पञ्चमे शर्कराभौमे बहुयोजनविस्तृते। विरोचनस्य नगरं दैत्यसिंहस्य धीमतः ॥ ५०.
On the fifth, which is of gravel-like earth and vast in extent, is the city of Virocana, the wise Daitya lord.
वैढूर्य्यस्याग्निजिह्वस्य हिरण्याक्षस्य चालयम्। पुरञ्च विद्युज्जिह्वस्य राक्षसस्य च धीमतः ॥ ५०.
And the residence of Vaiḍhūrya, of Agnijihva, and of Hiraṇyākṣa, and the city of Vidyujjihva, the wise Rākṣasa.
महामेघस्य च पुरं राक्षसेन्द्रस्य शालिनः। कर्म्मारस्य च नागस्य स्वस्तिकस्य जयस्य च ॥ ५०.
And the city of Mahāmegha, the Rākṣasa king Śāli, and the serpent Karmāra, and of Svastika and Jaya.
एवं पुरसहस्राणि नागदानवरक्षसाम्। पञ्चमेऽपि तथा ज्ञेयं शर्करानिलये सदा ॥ ५०.
Thus, thousands of cities of serpents, Dānavas, and Rākṣasas are always to be known on the fifth, in the region of gravel.
षष्ठे तले दैत्यपतेः केसरेर्नगरोत्तमम्। सुपर्व्वणः सुलोम्नश्च नगरं महिषस्य च। राक्षसेन्द्रस्य च पुरमुत्क्रोशस्य महात्मनः ॥ ५०.
On the sixth layer is the excellent city of the Daitya lord Kesarin, and the cities of Suparvaṇa, Sulomna, and of Mahiṣa, and the city of the great-souled Rākṣasa king Utkrośa.
तत्रास्ते सुरसापुत्रः शतशीर्षो मुदा युतः। कश्यपस्य सुतः श्रीमान् वासुकिर्नाम नागराट् ॥ ५०.
There dwells the son of Surasā, Śataśīrṣa, filled with joy, the illustrious Vāsuki, king of serpents, son of Kaśyapa.
एवं पुरसहस्राणि नागदानवरक्षसाम् । षष्ठे तलेऽस्मिन् विख्याते शिलाभौमे रसातले ॥ ५०.
Thus, in this renowned sixth layer of Rasatala, there are thousands of cities belonging to Nagas, Danavas, and Rakshasas, all established upon the stony earth.
सप्तमे तु तले ज्ञेयं पाताले सर्व्वपश्चिमे । पुरं बलेः प्रमुदितं नरनारीसमाकुलम् ॥ ५०.
In the seventh layer, known as Patala, which lies at the farthest west, there is the splendid city of Bali, filled with joyous men and women.
असुराशीविषैः पूर्णमुद्धृतैर्द्देवशत्रुभिः। मुचुकुन्दस्य दैत्यस्य तत्र वै नगरं महत् ॥ ५०.
That great city there belongs to the Daitya Mucukunda, and is filled with Asuras, venomous serpents, and enemies of the gods who have been cast down.
अनेकैर्दितिपुत्राणां समुदीर्णैर्महापुरैः। तथैव नागनगरैऋद्धिमद्भिः सहस्रशः ॥ ५०.
It is crowded with many vast cities of the sons of Diti, and likewise with thousands of prosperous Naga cities.
दैत्यानां दानवानाञ्च समुदीर्णै र्महापुरैः। उदीर्णै राक्षसावासैरनेकैश्च समाकुलम् ॥ ५०.
It is teeming with great cities of Daityas and Danavas, and with numerous abodes of Rakshasas, making it densely populated.
पातालान्ते च विप्रेन्द्रा विस्तीर्णे बहुयोजने। आस्ते रक्तारविन्दाक्षो महात्मा ह्यजरामरः ॥ ५०.
At the end of Patala, O best of Brahmins, in a vast region spanning many yojanas, dwells the great-souled one with eyes like red lotuses, who is ageless and immortal.
धौतशङ्खोदरवपुर्नीलवासा महाभुजः। विशालभोगो द्युतिमांश्चित्रमालाधरो बली ॥ ५०.
His body is like a washed conch, he is clad in blue garments, has mighty arms, a vast hood, is radiant, adorned with a wondrous garland, and is powerful.
रुक्मश्रृङगावदातेन दीप्तास्येन विराजता। प्रभुर्मुखसहस्रेण शोभते वै स कुण्डली ॥ ५०.
He shines with a golden-crested, spotless, blazing face, and as a lord with a thousand faces, the coiled one appears resplendent.