ममोद्विजन्ते भूतानि भयावृत्तस्य सर्वशः। तत्कथं नाम चार्वङ्गीं प्राप्नुयामहमङ्गनाम् ॥ ८.
All beings shrink away from me, filled with fear; so how could I ever attain this beautiful woman?
दृष्ट्वोपायं ततः सोऽथ शीघ्रकारी व्यवर्त्तत। कृत्वा रूपं बहुमतं गन्धर्वस्य तु गुह्यकः। ततः सोऽप्सरसां मध्ये तां जग्राह क्रतुस्थलीम् ॥ ८.
Then, seeing a way, he quickly changed his form to that of the esteemed Gandharva; thus, in the midst of the Apsarases, the Guhyaka seized Kratusthalī.
बुद्ध्वा च सुरुचिं तं सा भावेनैवाभ्यवर्त्तत। संवृतः स तया सार्द्धं दृश्यमानोऽप्सरोगणैः ॥ ८.
Recognizing him as Suruci, she accepted him in her heart; he was united with her, visible to the assembly of Apsarases.
स तत्र सिद्धकरणः सद्यो जातः सुतोऽस्य वै । परिणाहोच्छ्रयैर्युक्तः सद्यो वृत्तो ज्वलन् श्रिया ॥ ८.
There, a son was immediately born to him, endowed with all marks of excellence, radiant and resplendent in beauty.
राजाहमिति नाभिर्हि पितरं सोऽभ्यभाषत। तवात्र जाते न भीतिः पिता तं प्रत्युवाच ह ॥ ८.
He addressed his father, saying, 'I am a king.' His father replied, 'Since you are born here, you need not fear.'
मात्रानुरूपो रूपेण पितुर्वीर्येण जायते। जाते स तस्मिन् हर्षेण स्वरूपं प्रत्यपद्यत ॥ ८.
One is born resembling the mother in form and the father in vigor; when he was born, the father joyfully regained his own form.
स्वभावं प्रतिपद्यन्ते बृहन्तो यक्षराक्षसाः । म्रियमाणाः प्रसुप्ताश्च क्रुद्धा भीताः प्रहर्षिताः ॥ ८.
The mighty Yakṣas and Rākṣasas assume their own nature—whether dying, sleeping, angry, frightened, or delighted.
ततोऽब्रवीदप्सरसः स्मयमानः स गुह्यकः। गृहं मे गच्छ सुश्रोणि सपुत्रा वरवर्णिनी ॥ ८.
Then the Guhyaka, smiling, said to the Apsaras: 'Come to my house, O lovely-hipped one, together with your son, O beautiful woman.'
इत्युक्त्वा सहसा तञ्च दृष्ट्वा स्वं रूपमास्थितम्। विभ्रान्ताः प्राद्रवन् भीताः क्रोधमानाऽप्सरोगणाः ॥ ८.
Having said this, and seeing him assume his own form, the terrified and angry Apsarases, bewildered, fled away.
गच्छन्तीरन्वगच्छद्या पुत्रस्तां सान्त्वयन् गिरा। गन्धर्वाप्सरसां मध्येतां नीत्वा स न्यवर्त्तत ॥ ८.
As they departed, her son followed her, comforting her with words; having led her among the Gandharvas and Apsarases, he then turned back.
ताञ्च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः। यक्षाणां त्वं जनित्रीति प्रोचुस्तां वै क्रतुस्थलीम् ॥ ८.
And seeing the birth of the Yakṣa and the groups of Apsarases, they addressed Kratusthalī, saying, 'You are the mother of the Yakṣas.'
जगाम सह पुत्रेण ततो यक्षः स्वमालयम्। न्यग्रोधरोहिणं नाम गुह्यका यत्र शेरते। तस्मिन्निवासो यक्षाणां न्यग्रोधः सर्वतः प्रियः ॥ ८.
Then the Yakṣa, together with his son, went to his own abode, called Nyagrodharohiṇa, where the Guhyakas dwell; that banyan tree is the dwelling of the Yakṣas and is dear to all.
यक्षो रजतनाभस्तु गुह्यकानां पितामहः। अनुह्रादस्य दैत्यस्य भद्रामतिवरां सुताम्। उपयेमे स भद्रायां यस्यां मणिवरो वशी ॥ ८.
The Yakṣa named Rajatanābha is the progenitor of the Guhyakas; he married Bhadrā, the most excellent daughter of the Dānava Anuhrāda, and from Bhadrā was born Maṇivara, the mighty.
जज्ञे सा मणिभद्रञ्च शक्रतुल्यपराक्रमम्। तयोः पत्न्यौ भगिन्यौ तु क्रतुस्थल्यात्मजे शुभे ॥ ८.
From her was born Maṇibhadra, whose valor equals Indra's; their wives, both daughters of Kratusthalī, were sisters and virtuous.
नाम्ना पुण्यजनी चैव तथा देवजनी च या। विजज्ञे मणिभद्रात्तु पुत्रान् पुण्यजनी शुभान् ॥ ८.
By name, one was Puṇyajanī and the other Devajanī; from Maṇibhadra, Puṇyajanī bore virtuous sons.
सिद्धार्थं सूर्यतेजञ्च सुमन्तं नन्दनं तथा। कन्यकं यविक्ञ्चैव मणिदत्तं वसुं तथा ॥ ८.
Siddhārtha, Sūryatejas, Sumanta, Nandana, Kanyaka, Yavik, Maṇidatta, and Vasu.
सर्वानुभूतं शङ्खञ्च पिङ्गाक्षं भीरुमेव च। तथा मन्दरशोभिञ्च पझं चन्द्रप्रभं तथा ॥ ८.
Sarvānubhūta, Śaṅkha, Piṅgākṣa, Bhīru, Mandaraśobhin, Pajha, and Candraprabha.
मघपूर्णं सुभद्रञ्च प्रद्योतञ्च महौजसम्। द्युतिमत्केतुमन्तौ च मित्रं मौलिसुदर्शनौ ॥ ८.
Maghapūrṇa, Subhadra, Pradyota the mighty, Dyutimat, Ketumant, Mitra, Mauli, and Sudarśana.
चत्वारो विंशतिश्चैव पुत्राः पुण्यजनाः शुभाः । जज्ञिरे मणिभद्रस्य ते सर्वे पुण्यलक्षणाः । तेषां पुत्राश्च पौत्राश्च यक्षा पुण्यजनाः शुभाः ॥ ८.
Twenty-four virtuous and auspicious sons were born to Maṇibhadra, all marked by virtue; their sons and grandsons, the Yakṣas, were also virtuous and auspicious.
विजज्ञे देवजननी पुत्रान् मणिवरात्मजात् । पूर्णभद्रं हेमरथं मणिमन्नन्दिवर्द्धनौ ॥ ८.
Devajanī bore sons from Maṇivara: Pūrṇabhadra, Hemaratha, Maṇiman, and Nandivardhana.
कुस्तुम्बुरुं पिशङ्गाभं स्थूलकर्णं महाजयम्। श्वेतञ्च विपुलञ्चैव पुष्पवन्तं भयावहम् ॥ ८.
Kustumburu, Piśaṅgābha, Sthūlakarṇa, Mahājaya, Śveta, Vipula, Puṣpavanta, and Bhayāvaha.
पद्मवर्णं सुनेत्रञ्च यक्षं बालं बकं तथा। कुमुदं क्षेमकञ्चैव वर्द्धमानं तथा दमम् ॥ ८.
Padmavarṇa, Sunetra, the Yakṣa Bāla, Baka, Kumuda, Kṣemaka, Vardhamāna, and Dama.
पद्मनाभं वराङ्गञ्च सुवीरं विजयं कृतिम्। पूर्णमासं हिरण्याक्षं सुरूपञ्चैवमादयः ॥ ८.
Padmanābha, Varāṅga, Suvīra, Vijaya, Kṛti, Pūrṇamāsa, Hiraṇyākṣa, and Surūpa—these are the foremost.
पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः । सुरूपाश्च विरूपाश्च स्रग्विणः प्रियदर्शनाः। तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ ८.
These are the sons of Maṇivara, known as Yakṣas and Guhyakas; some are handsome, some are misshapen, adorned with garlands, and pleasing to behold; their sons and grandsons number in the hundreds and thousands.
खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः । तेषां यथा प्रधानान् वै वर्ण्यमानान्निबोधत ॥ ८.
From Khaśāyā were born other sons, Rākṣasas with the power to assume forms at will; listen as I describe their chief ones.
लालाविः कुथनो भीमः सुमाली मधुरेव च। विस्फूर्ज्जितो विद्युज्जिह्वो मातङ्गो धूम्रितस्तता ॥ ८.
Lālāvi, Kuthana, Bhīma, Sumālī, Madhura, Visphūrjita, Vidyujjihva, Mātaṅga, and Dhūmrita.
चन्द्रार्कः सुकरो बुध्नः कपिलोमा प्रहासकः। क्रीडः परशुनाभश्च चक्राक्षश्च निशाचरः ॥ ८.
Candrārka, Sukara, Budhna, Kapilomā, Prahāsaka, Krīḍa, Paraśunābha, Cakrākṣa, and Niśācara.
त्रिशिराः शतदंष्ट्रश्च तुण्डकेशश्च राक्षसः। यक्षश्चाकम्पनश्चैव दुर्मुखश्च शिलीमुखः ॥ ८.
Triśirā, Śatadaṃṣṭra, Tuṇḍakeśa the Rākṣasa, the Yakṣa Ākampana, Durmukha, and Śilīmukha.
इत्येते राक्षसवरा विक्रान्ता गणरूपिणः. सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः ॥ ८.
Thus, these foremost Rākṣasas, mighty and in the form of hosts, move throughout all the worlds and are equal to the gods in strength.
सप्त चान्या दुहितरस्ताः श्रृणुध्वं यथाक्रमम्। तासाञ्च यः प्रजासर्गो येन चोत्पादिता गणाः ॥ ८.
And there are seven other daughters—listen to their names in order—and the creation of beings from them, and the hosts that each produced.