६२.६० विजयः सुजयश्चैव मनोद्यानौ तथैव च । सुमतिः सुपरिश्चैव विज्ञातोऽर्थपतिश्च यः । भाव्या ह्येते स्मृता देवाः पृथुकांस्तु निबोधत
Vijaya, Sujaya, Manodyāna, Sumati, Supari, Vijñāta, Arthapati—these are remembered as the future gods; now hear of the Pṛthukas.
अजिष्टः शाक्यनो देवो वानपृष्ठस्तथैव च । शाङ्करः सत्यधृष्णुश्च विष्णुश्च विजयस्तथा । अजितश्च महाभागः पृथुकास्ते दिवौकसः
Ajiṣṭa, Śākyana, Vānapṛṣṭha, Śāṅkara, Satyadhṛṣṇu, Viṣṇu, Vijaya, and Ajita the illustrious—these are the Pṛthukas among the celestial beings.
लेखांस्तथा प्रवक्ष्यामि ब्रुवतो मे निबोधत । मनोजवः प्रघासस्तु प्रचेतास्तु महायशाः
I will now speak of the Lekhās; listen as I tell: Manojava, Praghāsa, Pracetā, and Mahāyaśā.
वातो ध्रुवक्षितिश्चैव अद्भुतश्चैव वीर्यवान् । अवनो बृहस्पतिश्चैव लेखाः सम्परिकीर्त्तिताः
Vāta, Dhruvakṣiti, Adbhuta the mighty, Avana, and Bṛhaspati—these Lekhās are enumerated.
मनोजवो महावीर्यस्तेषामिन्द्रस्तदाभवत् । उन्नतो भार्गवश्चैव हविष्मानङ्गिरःसुतः
Among them, Manojava of great strength became Indra; Unnata, Bhārgava, and Haviṣmān, son of Aṅgiras.
सुधामा काश्यपश्चैव वासिष्ठो विरजस्तथा । अतिमानश्च पौलस्त्यः सहिष्णुः पौलहस्तथा । मधुरा त्रेय इत्येते सप्त वै चाक्षुषेऽन्तरे
Sudhāmā, Kāśyapa, Vāsiṣṭha, Viraja, Atimāna, Paulastya, Sahiṣṇu, Paulaha, Madhurā, and Treya—these seven belong to the Cākṣuṣa interval.
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् कृतिः । अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव
Ūru, Pūru, Śatadyumna, Tapasvī, Satyavāk, Kṛti, Agniṣṭuda, Atirātra, and Sudyumna—these are the nine.
अभिमन्युश्च दशमो नाद्वलेया मनोः सुताः । चाक्षुषस्य सुता ह्येते षष्ठं चैव तदन्तरम्
Abhimanyu is the tenth; these are the sons of Manu, born of Nādvālī; these are the sons of Cākṣuṣa, the sixth in order.
वैवस्वतेन सङ्ख्यातस्तस्य सर्गो महात्मनः । विस्तरेणानुपूर्व्या च कथितं वै मया द्विजाः
The creation of Vaivasvata, the great soul, has been enumerated; I have described it in detail and sequence, O twice-born.
चाक्षुषस्य तु दायादः सम्भूतः कश्यपान्वये । तस्यान्ववाये येऽप्यन्ये तन्नो ब्रूहि यथातथम् ॥२.१.
The heir of Cākṣuṣa was born in the lineage of Kaśyapa; tell us truly of those others who arose in his succession.
६२.७० सूत उवाच॥ चाक्षुषस्य निसर्गन्तु समासाच्छ्रोतुमर्हथ । तस्यान्ववाये सम्भूतः पृथुर्वैन्यः प्रतापवान्
Sūta said: You should hear briefly of the creation of Cākṣuṣa; in his lineage, Pṛthu, son of Vena, was born, renowned for his prowess.
प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा । उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः
Other lords of creatures were Dakṣa and Prācetasa; Atri, the lord of creatures, accepted Uttānapāda as his son.
दक्षकस्य तु पुत्रोऽस्य राजा ह्यासीत् प्रजापतेः । स्वायम्भुवेन मनुना दत्तोऽत्रेः कारणं प्रति
Daksha's son became king, indeed, of the progeny of Prajapati; by Svayambhu Manu, he was given to Atri for a certain purpose.
मन्वन्तरमथासाद्य भविष्यं चाक्षुषस्य ह । षष्ठं तदनुवक्ष्यामि उपोद्घातेन वै द्विजाः
When the future Manvantara of Cākṣuṣa arrives, I will recount the sixth in detail, O twice-born, with an introduction.
उत्तानपादाच्चतुरा सूनृता वित्तभाविनी । उत्पन्ना चाधिधर्मेण ध्रुवस्य जननी शुभा । धर्मस्य पत्न्यां लक्ष्म्यां वै उत्पन्ना सा शुचिस्मिता
From Uttānapāda four daughters were born: Sūnṛtā, Vittabhāvinī, and also Adhidharma, the auspicious mother of Dhruva; from Lakṣmī, wife of Dharma, was born Śucismitā, radiant with purity.
ध्रुवञ्च कीर्त्तिमन्तञ्च अयस्मन्तं वसुं तथा । उत्तानपादोऽजनयत् कन्ये द्वे च शुचिस्मिते । मनस्विनीं स्वराञ्चैव त्रयोः पुत्राः प्रकीर्त्तिताः
Uttānapāda begot Dhruva, Kīrttimanta, Ayasmanta, and Vasu, as well as two daughters, Śucismitā and Manasvinī; Svarā was also born, thus three sons are mentioned.
ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान् । तपस्तेपे निराहारः प्रार्थयन् विपुलं यशः
Dhruva, powerful, practiced austerity for ten divine years without food, desiring great fame.
त्रेतायुगे तु प्रथमे पौत्रः स्वायम्भुवस्य सः । आत्मानं धारयन् योगात् प्रार्थयन् सुमहद्यशः
In the first Treta Yuga, the grandson of Svāyambhuva, sustaining himself through yoga, sought exceedingly great renown.
तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम् । आभूतसंप्लवं हृद्यमस्तोदयविवर्जितम्
To him, Brahmā, pleased, granted the highest place among the stars, free from the rising and setting, delightful and beyond dissolution.
तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य ह । दैत्यासुराणामाचार्यः श्लोकमप्युशना जगौ॥२.१.
Beholding his extraordinary prosperity and greatness, the teacher of the Daityas and Asuras, Uśanas, sang a verse.
६२.८० अहो स्य तपसो वीर्यमहो श्रुतमहो हुतम्। स्थिताः सप्तर्षयः कृत्वा यदेनमुपरि ध्रुवम् । ध्रुवे दिवं समासक्तमीश्वरः स दिवस्पतिः
Ah, the power of his austerity! Ah, his learning! Ah, his offerings! The seven sages, having made him steadfast above, established Dhruva in heaven, and the Lord became the master of the sky.
ध्रुवात्पुष्टिञ्च भव्यञ्च भूमिः सा सुषुवे नृपौ । स्वां छायामाह वै पुष्टिर्भव नारी तु तां विभुः
From Dhruva, Puṣṭi and Bhavya were born; the earth produced them, O king. Puṣṭi declared, 'Become my shadow,' and Bhava, the lord, made her his wife.
सत्याभिव्याहृते तस्य सद्यः स्त्री साभवत्तदा । दिव्यसंहन नाच्छाया दिव्याभरणभूषिता
When truth was spoken by him, that woman immediately appeared, with a divine form and shadow, adorned with celestial ornaments.
छायायां पुष्टिराधत्त पञ्च पुत्रानकल्मषान् । प्राचीनगर्भं वृषकं वृकञ्च वृकलं धृतिम्
In Chāyā, Puṣṭi bore five faultless sons: Prācīnagarbha, Vṛṣaka, Vṛka, Vṛkala, and Dhṛti.
पत्नी प्राचीनगर्भस्य भूवर्चा सुषुवे नृपम् । नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि
Bhūvarcā, wife of Prācīnagarbha, gave birth to a king, Udāradhiya by name, who was Indra in a previous birth.
संवत्सरसहस्रान्ते सकृदाहारमाहरत् । एवं मन्वन्तरं युक्तमिन्द्रत्वं प्राप्तवान्विभुः
At the end of a thousand years, he took food only once; thus, having fulfilled the Manvantara, the lord attained the position of Indra.
उदारधेः सुतं भद्राजनयत्सा दिवञ्जयम् । रिपुं रिपुञ्जयं जज्ञे वराङ्गी सा दिवञ्जयात्
Bhadrā gave birth to Divanjaya, son of Udāradhi; Varāṅgī, from Divanjaya, bore Ripu and Ripunjaya.
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् । व्यजीजनत् पुष्करिण्यां वारुण्यां चाक्षुणो मनुम् । प्रजापतेरात्मजायामारण्यस्य महात्मनः
Bṛhatī, wife of Ripu, bore Cākṣuṣa, endowed with all brilliance; Puṣkariṇī and Vāruṇī gave birth to Cākṣuṣa Manu, son of Prajāpati and the great soul Araṇya.
मनोरजायन्त दशनद्वलायां शुभाः सुताः । कन्यायां वै महाभाग वैराजस्य प्रजापतेः
To Manu were born auspicious sons in Nadvalā; and to the blessed daughter of Vairāja Prajāpati.
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः । अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव । अभिमन्युश्च दशमो नद्वलायां मनोः सुताः ॥२.१.
Ūru, Pūru, Śatadyumna, Tapasvī, Satyavāk, Kavi, Agniṣṭuda, Atirātra, Sudyumna—these nine, and Abhimanyu as the tenth, were sons of Manu by Nadvalā.