६२.३० सत्यानामपि नामानि निबोधत यथामतम् । दिक्पतिर्वाक्पतिश्चैव विश्वः शम्भुस्तथैव च
Now hear the names of the Satyas, as they are known: Dikpati, Vākpati, Viśva, Śambhu as well.
स्वमृडीकोऽधिपश्चैव वर्च्चोधा मुह्यसर्व्वशः । वासवश्च सदाश्वश्च क्षेमानन्दौ तथैव च
Svamṛḍīka, Adhipa, Varcchodhā, Muhyasarvaśa, Vāsava, Sadāśva, Kṣemānanda likewise.
सत्या ह्येते परिक्रान्ता यज्ञिया द्वादशापराः । इत्येते देवता ह्यासन्नौत्तमस्यान्तरे मनोः
These are the Satyas, twelve in number, fit for sacrifice; these deities existed in the period of Uttama Manu.
अजश्च परशुश्चैव दिव्यो दिव्यौषधिर्न्नयः । देवानुजश्चाप्रतिमो महोत्साहौशिजस्तथा
Aja, Paraśu, Divya, Divyauṣadhi, Naya, Devānuja, Apratima, Mahotsāha, Uśija as well.
विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः । औत्तमस्य मनोः पुत्रास्त्रयोदश महात्मनः । एते क्षत्रप्रणेतारस्तृतीयं चैतदन्तरम्
Vinīta, Suketu, Sumitra, Subala, Śuci—these are the thirteen sons of the great-souled Uttama Manu; they were the leaders of the kṣatriyas in this third interval.
औत्तमे परिसङ्ख्यातः सर्गः स्वारोचिषेण तु । विस्तरेणानुपूर्व्या च तामसस्तान्निबोधत
In the Uttama Manvantara, the creation is enumerated, and likewise in Svārociṣa; now hear in order the details of Tāmasa.
चतुर्थेत्वथ पर्याये तामसस्यान्तरे मनोः । सत्या स्वरूपाः सुधियो हरयश्चतुरो गणाः
Then, in the fourth cycle, within the interval of Tāmasa Manu, the Satyas, Svarūpas, Sudhis, and the four groups of Haris appeared.
पुलस्त्यपुत्रस्तु शीर्ष्यण्यास्तमश्चैवाष्टमस्तथा । इन्द्रियाणि तदा देवा मनोस्तस्यान्तरे स्मृताः
Pulastya's son was Śīrṣyaṇya, and Tama was the eighth; at that time, the gods known as the senses were remembered within the interval of that Manu.
इन्द्रियाणां शतं यद्धिमुनयः प्रतिजानते । सत्यप्राणास्तु शीर्ष्यण्यास्तमश्चैवाष्टमस्तथा । इन्द्रियाणि तदा देवा मनोस्तस्यान्तरे स्मृताः
The sages declare that there are a hundred senses; the Satyaprāṇas were of Śīrṣyaṇya, and Tama was the eighth; at that time, the gods known as the senses were remembered within the interval of that Manu.
तेषां च प्रभुदेवानां शिविरिन्द्रः प्रतापवान् । सप्तर्षयोऽन्तरे चैव तान्निबोधत सत्तमाः ॥२.१.
Among those lordly gods, Śivi was the powerful Indra; and within that interval, the seven sages—learn of them, O noble ones.
६२.४० काव्यो हर्षस्तथा चैव काश्यपः पृथुरेव च । आत्रेयश्चाग्निरित्येव ज्योतिर्धामा च भार्गवः
Kāvya, Harṣa, Kāśyapa, Pṛthu, Ātreya, Agni, Jyotirdhāmā, and Bhārgava—these were the sages.
पौलहो वनपीठश्च गोत्रे वासिष्ठ एव च । चैत्रस्तथापि पौलस्त्य ऋषयस्तामसेऽन्तरे
Paulaha, Vanapīṭha, and Gotra Vāsiṣṭha, as well as Caitra and Paulastya—these were the sages in the Tāmasa interval.
जनुवण्डस्तथा शान्तिर्नरः ख्यातिर्भयस्तथा । प्रियभृत्यो ह्यवक्षिश्च पृष्टलोढो दृढोद्यतः । ऋतश्च ऋतबन्धुश्च तामसस्य मनोः सुताः
Januvaṇḍa, Śānti, Nara, Khyāti, Bhaya, Priyabhṛtya, Avakṣi, Pṛṣṭaloḍha, Dṛḍhodyata, Ṛta, and Ṛtabandhu—these were the sons of Tāmasa Manu.
पञ्चमेत्वथ पर्याये मनोश्चारिष्णवेऽन्तरे । गणास्तु सुसमाख्याता देवतानां निबोधत
Now, in the fifth cycle, within the interval of Cāriṣṇava Manu, the groups of deities are well described—listen to them.
अमृता भाभूतरजोविकुण्ठाः ससुमेधसः । चरिष्णोस्तु शुभाः पुत्रा वसिष्ठस्य प्रजापतेः । चतुर्दश च चत्वारो गणास्तेषान्तु भास्वराः
The Amṛtās, Bhābhūtarajas, Vikuṇṭhas, and Sasumedhas—these were the auspicious sons of Cariṣṇu, son of Vasiṣṭha, the lord of creatures; and among them, there were fourteen and four shining groups.
स्वत्रविप्रेग्निभासस्व प्रत्येतिष्ठामृतस्तथा । सुमतिर्वाविरावश्च वाचिनोदः स्रवस्तथा
Svatra, Vipregni, Bhāsa, Sva, Pratyeti, Sṭhāmṛta, Sumati, Vāvirāva, Vācinoda, and Sravas—these are named.
प्रविराशी च वादश्च प्राशश्चेति चतुर्दश । अमृताभाः स्मृता ह्येते देवाश्चारिष्णवेऽन्तरे
Pravirāśī, Vāda, Prāśa—these make fourteen; these gods, known as Amṛtābhās, are remembered in the interval of Cāriṣṇava.
मतिश्च सुमतिश्चैव ऋतसत्यौ तथैव च । आवृतिर्विवृतिश्चैव मदो विनय एव च
Mati, Sumati, Ṛta, Satya, Āvṛti, Vivṛti, Mada, and Vinaya—these are also named.
जेता जिष्णुः सहश्चैव द्युतिमान् स्रवसस्तथा । इत्येतानीह नामानि आभूतरजसां विदुः
Jetā, Jiṣṇu, Saha, Dyutimān, and Sravas—these are the names known among the Bhābhūtarajas.
वृषभेत्ता जयो भीमः शुचिर्दान्तो यशो दमः । नाथो विद्वानजेयश्च कृशो गौरो ध्रुवस्तथा । कीर्तितास्तु विकुण्ठा वै सुमेधास्तु निबोधत ॥२.१.
Vṛṣabhettā, Jaya, Bhīma, Śuci, Dānta, Yaśo, Dama, Nātha, Vidvān, Ajeya, Kṛśa, Gaura, and Dhruva—these are the Vikuṇṭhas; now listen to the Sumedhas.
६२.५० मेधा मेधातिथिश्चैव सत्यमेधास्तथैव च । पृश्रिमेधाल्पमेधाश्च भूयोमेधादयः प्रभुः
Medhā, Medhātithi, Satyamedhā, Pṛśrimedhā, Alpamedhā, Bhūyomedhā, and others—these are the lords among the Sumedhas.
दीप्तिमेधा यशोमेधाः स्थिरमेधास्तथैव च । सर्वमेधाश्वमेधाश्च प्रतिमेधाश्च यः स्मृतः । मेधावान् मेधहर्त्ता च कीर्त्तितास्तु सुमेधसः
Dīptimedhā, Yaśomedhā, Sthiramedhā, Sarvamedhā, Aśvamedhā, Pratimedhā, Medhāvān, and Medhahartā—these are also named among the Sumedhas.
विभुरिन्द्रस्तदा तेषामासीद्विक्रान्तपौरुषः । पौलस्त्यो वेदबाहुश्च यजुर्नामा च काश्यपः
Vibhu was their Indra at that time, powerful in valor; Paulastya was Vedabāhu, and Kāśyapa was called Yajur.
हिरण्यरोमाङ्गिरसो वेदश्रीश्चैव भार्गवः । ऊर्द्ध्वबाहुश्च वासिष्ठः पर्जन्यः पौलहस्तथा । सत्यनेत्रस्तथात्रेय ऋषयो रैवतान्तरे
Hiraṇyaroma was Āṅgirasa, Vedaśrī was Bhārgava, Ūrddhvabāhu was Vāsiṣṭha, Parjanya was Paulaha, and Satyanetra was Ātreya—these were the sages in the Raivata interval.
महापुराणसम्भाव्यः प्रत्यङ्गपरहा शुचिः । बलबन्धुर्निरामित्रः केतुभृङ्गो दृढव्रतः । चरिष्णवस्य पुत्रास्ते पञ्चमञ्चैतदन्तरम्
He is esteemed as a great Purāṇa, devoted to each limb, pure, strong, without enemies, bearing the banner, firm in his vows; these are the sons of Cariṣṇava, the fifth in this sequence.
स्वारोचिषोत्तमश्चैव तामसो रैवतस्तथा । प्रियव्रतान्वया ह्येते चत्वारो मनवस्तथा
Svārociṣa, Uttama, Tāmasa, and Raivata—these four Manus are of the lineage of Priyavrata.
षष्ठे खल्वथ पर्याये देवा ये चाक्षुषेऽन्तरे । आद्याः प्रसूता भाव्याश्च पृथुकाश्च दिवौकसः । महानुभावलेखाश्च पञ्च देवगणाः स्मृतः
In the sixth cycle, the gods who exist in the Cākṣuṣa interval—the first-born, those yet to be born, and the Pṛthukas among the celestial beings, as well as the mighty Lekhās—are remembered as five groups of gods.
दिवौकसः सर्ग एष प्रोच्यते मातृनामभिः । अत्रेः पुत्रस्य नप्तार आरण्यस्य प्रजापतेः । गणाश्च तेषां देवानामेकैको ह्यष्टकः स्मृतः
This creation of the celestial beings is spoken of by the names of the Mothers; the grandsons of Atri's son, the progeny of Āraṇya, the lord of creatures; and each group of these gods is reckoned as eight.
अन्तरिक्षो वसुहयो ह्यतिथिश्च प्रियवतः । श्रोता मन्ता सुमन्ता च आद्या ह्येते प्रकीर्त्तिताः
Antarikṣa, Vasuhaya, Atithi, Priyavata, Śrotā, Mantā, Sumantā—these are the first ones enumerated.
श्येनभद्रस्तथा पश्यः पथ्यनेत्रो महायशाः । सुमनाश्च सुवेताश्च रैवतः सुप्रचेतसः । द्युतिश्चैव महासत्त्वः प्रसूताः परिकीर्त्तिताः ॥२.१.
Śyenabhadra, Paśya, Pathyanetra, Mahāyaśā, Sumanā, Suvetā, Raivata, Supracetasa, Dyuti, and Mahāsattva—these are the offspring proclaimed.