उत्तरार्द्धम् शांशपायन उवाच॥ क्रमं मन्वन्तराणान्तु ज्ञातुमिच्छामि तत्त्वतः । दैवतानां च सर्वेषां ये च यस्यान्तरे मनोः
Śāṃśapāyana said: I wish to know, in detail and truth, the order of the Manvantaras, and all the deities who exist within each period of Manu.
सूत उवाच॥ मन्वन्तराणां यानि स्युरतीतानागतानि ह । समासाद्विस्तराच्चैव ब्रुवतो वै निबोदत
Sūta said: Listen as I recount, both briefly and in detail, the Manvantaras that have passed and those yet to come.
स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा । औत्तमस्तामसश्चैव तथा रैवतचाक्षुषौ । षडेते मनवोऽतीता वक्ष्याम्यष्टावनागतान्
The previous Manus were Svāyambhuva, Svārociṣa, Auttama, Tāmasa, Raivata, and Cākṣuṣa—these six Manus have passed; I will now speak of the eight yet to come.
सावर्णाः पञ्च रौच्यश्च भौत्यो वैवस्वतस्तथा । वक्ष्याम्येतान् पुरस्तात्तु मनोर्वैवस्वतस्य ह
The five Sāvarṇas, Raucya, Bhautya, and Vaivasvata—these I will describe, beginning with Vaivasvata Manu.
मनवः पञ्च येऽतीता मानवांस्तान् निबोधत । मन्वन्तरं मया चोक्तं क्रान्तं स्वायम्भुवस्य ह
Understand the five Manus who have passed; I have already spoken of the Manvantara of Svāyambhuva Manu.
अत ऊर्द्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य ह । प्रजासर्गं समासेन द्वितीयस्य महात्मनः
Now I will narrate, in brief, the creation of beings during the period of Svārociṣa Manu, the second great Manu.
आसन् वै तुषिता देवा मनुस्वारोचिषेऽन्तरे । पारावताश्च विद्वांसो द्वावेव तु गणौ स्मृतौ
During the period of Svārociṣa Manu, the Tuṣita gods existed, and the learned Pārāvata gods; only these two groups are remembered.
तुषितायां समुत्पन्नाः क्रतोः पुत्राः स्वरोचिषः । पारावताश्च शिष्टाश्च द्वादशौतौ गणौ स्मृतौ । छन्दजाश्च चतुर्विंशद्देवास्ते वै तदा स्मृताः
The sons of Kratu, known as the Tuṣitas, and the remaining Pārāvatas, twelve in each group, are remembered; and the Chandajas, twenty-four gods, are also recalled from that time.
धैवस्यशोऽथ वामान्यो गोपा देवायतस्तथा । अजश्च भगवान् देवो दुरोणश्च महाबलः
Dhaivasya, Vāmānya, Gopā, Aja the divine, Bhagavān, and Duroṇa the mighty were among the gods.
आपश्चापि महाबाहुर्महौजाश्चापि वीर्यवान् । चिकित्वान् निभृतो यश्च अंशोयश्चैव पठ्यते । इत्येते क्रतुपुत्रास्तु तदासन् सोमपायिनः ॥२.१.
Āpa the strong-armed, Mahaujā the powerful, Cikitvān, Nibhṛta, Yaśa, and Aṃśa are named; these sons of Kratu were the Soma-drinking gods at that time.
६२.१० प्रचेताश्चैव यो देवो विश्वेदेवास्तथैव च । समञ्जो विश्रुतो यश्च अजिह्मश्चारिमर्द्दनः
Pracetā, the god, and the Viśvedevas; Samañja, Viśruta, Yaśa, Ajihma, and Arimardana.
अजोषौ च महाभागौ यवीयश्च महाबलः
Ajoṣa and Mahābhāga, Yavīya the mighty.
होता यज्वाच इत्येते पराक्रान्ताः परावताः । इत्येता देवता ह्यासन्मनुस्वारोचिषेन्तरे
Hotā and Yajvā—these valiant Pārāvatas; these were the deities during the period of Svārociṣa Manu.
सोमपास्तु तदा ह्येताश्चतुर्विंशतिदेवताः । तेषामिन्द्रस्तदा ह्यासीद्वैधश्च लोकविश्रुतः
At that time, these twenty-four gods were Soma-drinkers; among them, Indra was known as Vaidha, renowned throughout the worlds.
ऊर्जौ वसिष्ठपुत्रस्तु स्तम्भः काश्यप एव च । भार्गवश्च तदा द्रोणो ऋषभोऽङ्गिरसस्तथा
Ūrja, son of Vasiṣṭha, Stambha, Kāśyapa, Bhārgava, Droṇa, Ṛṣabha, and Aṅgiras.
पौलस्त्यश्चैव दत्तात्रिरात्रेयो निश्चलस्तथा । पौलहस्य च धावांस्तु एते सप्तर्षयः स्मृताः
Paulastya, Dattātreya, Ātreya, Niścala, and Dhāvān, son of Paulastya—these are remembered as the seven sages.
बृहद्गुहो नवश्चैव सुताश्चैते नव स्मृताः
Bṛhadguha and Nava, and their nine sons—these nine are remembered.
मनोः स्वारोचिषस्यैते पुत्रा वंशकराः स्मृताः । पुराणे परिसङ्ख्याता द्वितीयं चैतदन्तरम्
These are the sons of Svārociṣa Manu, remembered as progenitors; they are enumerated in the Purāṇa as belonging to the second Manvantara.
सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयम् । मूलं मन्वन्तरस्यैते तेषां चैवान्तरे प्रजाः
The seven sages, Manu, the gods, and the four groups of ancestors—these are the roots of a Manvantara, and within them, the beings arise in succession.
ऋषीणां देवताः पुत्राः पितरो देवसूनवः । ऋषयो देवपुत्राश्च इति शास्त्रविनिश्चयः ॥२.१.
The sons of the sages are the deities, the ancestors are the sons of the gods; thus, sages and divine sons—this is the conclusion of the scriptures.
६२.२१ मनोः क्षत्रं विशश्चैव सप्तर्षिभ्यो द्विजातयः । एतन्मन्वन्तरं प्रोक्तं समासान्न तु विस्तरात्
The kṣatriyas and the people are from Manu, and the twice-born from the seven sages; this is called a Manvantara in brief, not in detail.
स्वायम्भुवेन विस्तारो ज्ञेयः स्वारोचिषस्य तु । न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि । पुनरुक्तबहुत्वात्तु प्रजानां वैकुले कुले
The expansion under Svāyambhuva is to be understood, and likewise for Svārociṣa; but the full extent of that cannot be told even in hundreds of years, because of the repeated abundance of beings in each lineage.
तृतीयस्त्वथ पर्याय औत्तमस्यान्तरे मनोः । पञ्च चैव गणाः प्रोक्तास्तान् वक्ष्यामि निबोधत
Now, in the third cycle, within the period of Uttama Manu, five groups are mentioned; I will declare them, listen attentively.
सुधामानश्च देवाश्च ये चान्ये वशवर्त्तिनः । प्रतर्द्दनाः शिवाः सत्या गणा द्वादश वै स्मृताः
Sudhāmāna and the gods, and others who are obedient; the Pratardanas, the Śivas, and the Satyas—these twelve groups are remembered.
सत्यो धृतिर्दमो दान्तः क्षमः क्षामो धृतिः शुचिः । ईषोर्जाश्च तथा ज्येष्ठो वपुष्मांश्चैव द्वादश । इत्येते नामभिः क्रान्ताः सुधामानस्तु द्वादश
Satya, Dhṛti, Dama, Dānta, Kṣama, Kṣāma, Dhṛti, Śuci, Īṣorja, Jyeṣṭha, Vapuṣmān—these twelve by name are known as the Sudhāmānas.
सहस्रधारो विश्वात्मा शमितारो बृहद्वसुः । विश्वधाविश्वकर्मा च मनस्वन्तो विराड्यशाः
Sahasradhāra, Viśvātmā, Śamitāra, Bṛhadvasu, Viśvadhā, Viśvakarmā, Manasvant, and Virāḍyaśa.
ज्योतिश्चैव विभाव्यश्च कीर्त्तिमान् वंशकारिणः । अन्यानाराधितो देवो वसुधिष्णो विवस्वसुः
Jyoti, Vibhāvya, Kīrtimān, Vaṃśakārin; the god Vasudhiṣṇa, Vivasvasu, and others who are worshipped.
दिनक्रतुः सुधर्मा च धृतवर्मा यशस्विनः । केतुमांश्चैव इत्येते कीर्तितास्तु प्रमर्द्दनाः
Dinakratu, Sudharmā, Dhṛtavarmā, the illustrious ones; Ketumān—these are named as the Pramardanas.
हंसस्वरोऽहिहा चैव प्रतर्द्दनयशस्करौ । सुदानो वसुदानश्च सुमञ्जसविषावुभौ
Haṃsasvara, Ahihā, Pratardana, Yaśaskara, Sudāna, Vasudāna, Sumañjasa, and Viṣāva—these two as well.
जन्तुवाहयतिश्चैव सुवित्तसुनयस्तथा । शिवा ह्येते तु विज्ञेया यज्ञिया द्वादशापराः ॥२.१.
Jantuvāha, Yati, Suvitta, Sunaya—these are the Śivas, to be known as the twelve others who are fit for sacrifice.