तीर्थयात्रां पुरस्कृत्य प्रादक्षिण्यं च चक्रतुः
यथास्थानानि ते तस्मान्निवृत्ताश्च सुरादयः
पौलस्त्यो रावणो नाम भ्रातृभिः सह राक्षसैः
शुश्रूषया च परया गोकर्णेश्वरमव्ययम्
तदा त्रैलोक्यविजयं वरं वव्रे स राक्षसः
अवाप्य च दशग्रीवस्तदिष्टं परमेश्वरात्
त्रैलोक्यं स विनिर्जित्य शक्रं च त्रिदशाधिपम्
शृंगाग्रं यत्पुरा नीत्वा स्थापितं वज्रपाणिना
तद्यावद्रावणः स्थाप्य मुहूर्त्तमुदधेस्तटे 216.
न शशाक यदा रक्षस्तदुत्पाटयितुं बलात्
स तु दक्षिणगोकर्णो विज्ञेयस्ते महामते
एतत्ते कथितं सर्वं मया विस्तरतो मुने
दक्षिणस्य च विप्रर्षे तथा शृंगेश्वरस्य च
व्युष्टिः क्षेत्रस्य महती तीर्थानां च समुद्भवः
इति श्रीवराहपुराणे गोकर्णशृंगेश्वरादीनां माहात्म्यं नाम षोडशाधिकद्विशततमोऽध्यायः
; अथ धरणीवराहसंवादफलश्रुतिवर्णनम् उक्तं भगवता सर्वं यथावत्परमेष्ठिना
भगवद्विश्वरूपस्य स्थाणोरप्रतिमौजसः
यथा शरीरं शृङ्गं च पुण्यक्षेत्रे प्रतिष्ठितम्
तन्मे ब्रूहि महाभाग यथातत्त्वं जगत्पते पुलस्त्यो वक्ष्यते शेषं यदतोऽन्यन्महामुने
सर्वेषामेव तीर्थानामेषां फलविनिश्चयम्
पुत्रो मे मत्समः सम्यग्वेदवेदांगतत्त्ववित्
यशस्वी कीर्त्तिमान्भूत्वा वन्द्यते प्रेत्य चेह च
मंगल्यं च शिवं चैव धर्मकामार्थसाधकम्
धन्यं यशस्यं पापघ्नं स्वस्तिकृच्छान्तिकारकम्
कीर्तयित्वा व्रजेत्स्वर्गं कल्यमुत्थाय मानवः इत्युक्त्वा भगवान्देवः परमेष्ठी प्रजापतिः ।। 217.
सनत्कुमारं सन्दिश्य विरराम महायशाः
वराहभूमिसंवादं सारमुद्धृत्य सत्तमाः
सर्वपापविनिर्मुक्तः स याति परमां गतिम्
प्रयागे ब्रह्मतीर्थे च तीर्थे चामरकण्टके
कपिलां द्विजमुख्याय सम्यग्दत्त्वा तु यत्फलम्