धीमान्गच्छेत्तु विधिना कामक्रोधविवर्जितः
स्नानस्य तद्दशगुणं भवेदत्र न संशयः
तदक्षयं भवेद्दातुर्दानपुण्यफलं महत्
वरिष्ठं क्षेत्रमेतस्मान्नान्यदेव हि विद्यते
यत्र यत्र मया देवाश्चरता मृगरूपिणा
तत्र तत्राभवत्सर्वं पुण्यक्षेत्रं च सर्वशः 215.
गोकर्णेश्वर इत्येतत्पृथिव्यां ख्यातिमेष्यति
अदृश्य एव विबुधैः प्रययावुत्तरां दिशम्
इति श्रीवराहपुराणे भगवच्छास्त्रे भगवद्गोकर्णेश्वरमाहात्म्ये जलेश्वरमाहात्म्यवर्णनं नाम पंचदशाधिकद्विशततमोऽध्यायः
; अथ गोकर्णशृंगेश्वरादिमाहात्म्यम् तस्मात्स्थानादपक्रान्ते त्र्यम्बके मृगरूपिणि
त्रिधाविभक्तं तच्छृङ्गं पृथक्पृथगवस्थितम्
स्थापितं देवि नीत्वा वै शृंगाग्रं वज्रपाणिना
देवैर्देवर्षिभिश्चैव सिद्धैर्ब्रह्मर्षिभिस्तथा
विष्णुना देवतीर्थेन तन्मूलं स्थापितं ततः
thumb|Gokarna Atmalinga तत्र तत्रैव भगवांस्तस्मिन्शृंगे त्रिधा स्थिते
शतं तेन तु भागानामात्मनो निहितं मृगे
मार्गेण तच्छरीरेण निर्ययौ भगवान्विभुः
शतसंख्या स्मृता व्युष्टिस्तस्मिञ्छैलेश्वरे विभोः
ततः सुरासुरगुरुर्देवं भूतमहेश्वरम् 216.
देवदानवगन्धर्वाः सिद्धयक्षमहोरगाः
तीर्थयात्रां पुरस्कृत्य प्रादक्षिण्यं च चक्रतुः
यथास्थानानि ते तस्मान्निवृत्ताश्च सुरादयः
पौलस्त्यो रावणो नाम भ्रातृभिः सह राक्षसैः
शुश्रूषया च परया गोकर्णेश्वरमव्ययम्
तदा त्रैलोक्यविजयं वरं वव्रे स राक्षसः
अवाप्य च दशग्रीवस्तदिष्टं परमेश्वरात्
त्रैलोक्यं स विनिर्जित्य शक्रं च त्रिदशाधिपम्
शृंगाग्रं यत्पुरा नीत्वा स्थापितं वज्रपाणिना
तद्यावद्रावणः स्थाप्य मुहूर्त्तमुदधेस्तटे 216.
न शशाक यदा रक्षस्तदुत्पाटयितुं बलात्