भृगुमूले परं तीर्थं ब्रह्मणा निर्मितं स्वयम्
संवत्सरं तु यस्तत्र स्नास्यंस्तु नियतेन्द्रियः
तत्र गोरक्षकं नाम गोवृषः पदविक्षतम्
गौर्यास्तु शिखरं तत्र गच्छेत्सिद्धनिषेवितम्
लोकमाता भगवती लोकरक्षार्थमुद्यता
त्यजते पतितुं तस्या अधस्ताद्वाग्मतीतटे
स्तनकुण्डे उमायास्तु यः स्नायात्खलु मानवः 215.
तीर्थं पंचनदं प्राप्य पुण्यं ब्रह्मर्षिसेवितम्
नकुलोहेन मतिमान्स्नापयेत्प्रयतात्मवान्
तस्यैवोत्तरतस्तीर्थमपरं सिद्धसेवितम्
संवत्सरं यस्तु पूर्णं तत्र स्नायान्नरः सदा
देव्याः शिखरवासिन्या ज्ञेयं पूर्वोत्तरेण वै
तीर्थं ब्रह्मोदयं नाम पुण्यं पापप्रणाशनम्
मृत्युलोकं न पश्येत्स कृच्छ्रेषु च न सीदति
तत्र स्नात्वा भवेत्तोये रूपवानुत्तमद्युतिः
तत्र सन्ध्यामुपास्याथ द्विजो मुच्येत किल्विषात्
अहोरात्रं वसेद्यस्तु रुद्रजापो द्विजः शुचिः 215.
तारितं च कुलं तेन सर्वं भवति साधुना
यत्र यत्र च वाग्मत्यां स्नाति वै मानवोत्तमः
तिर्यग्योनिं न गच्छेत्तु समृद्धे जायते कुले
धीमान्गच्छेत्तु विधिना कामक्रोधविवर्जितः
स्नानस्य तद्दशगुणं भवेदत्र न संशयः
तदक्षयं भवेद्दातुर्दानपुण्यफलं महत्
वरिष्ठं क्षेत्रमेतस्मान्नान्यदेव हि विद्यते
यत्र यत्र मया देवाश्चरता मृगरूपिणा
तत्र तत्राभवत्सर्वं पुण्यक्षेत्रं च सर्वशः 215.
गोकर्णेश्वर इत्येतत्पृथिव्यां ख्यातिमेष्यति
अदृश्य एव विबुधैः प्रययावुत्तरां दिशम्
इति श्रीवराहपुराणे भगवच्छास्त्रे भगवद्गोकर्णेश्वरमाहात्म्ये जलेश्वरमाहात्म्यवर्णनं नाम पंचदशाधिकद्विशततमोऽध्यायः
; अथ गोकर्णशृंगेश्वरादिमाहात्म्यम् तस्मात्स्थानादपक्रान्ते त्र्यम्बके मृगरूपिणि