स्नापनार्थे मम शुचिः श्रद्दधानोऽनसूयकः
आहृतस्याग्निहोत्रस्य यत्फलं तस्य तद्भवेत्
मृगशृङ्गोदकं नाम नित्यं मुनिजनप्रियम्
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति
अग्निष्टोमफलं तत्र स्नातमात्रः प्रपद्यते
न तां पापाः कृतघ्नो वा कदाचित्प्राप्नुयान्नरः
वाग्मत्यां ते नराः स्नान्ति लभन्ते चोत्तमां गतिम् 215.
वाग्मत्याः सलिले स्नात्वा ये मां पश्यन्ति संस्कृताः
मत्प्रभावात्तु स्नातस्य सर्वं नश्यति किल्बिषम्
वाग्मत्याः सलिले स्नात्वा ये मां पश्यन्ति संस्कृताः
तत्र तत्र फलं दद्याद्राजसूयाश्वमेधयोः
मूलक्षेत्रं तु विज्ञेयं रुद्रेणाधिष्ठितं स्वयम्
वृतो नागसहस्रैस्तु द्वारि तिष्ठति मे सदा
प्रथमं स नमस्कार्यस्ततोऽहं तदनन्तरम्
वन्दते परया भक्त्या यो मां तत्र नरः सदा
गन्धैर्माल्यैश्च मे मूर्त्तिमभ्यर्च्चयति यो नरः
यस्तु दद्यात्प्रदीपं मे पर्वते श्रद्धयान्वितः 215.
गीतवादित्रनृत्यैस्तु स्तुतिभिर्जागरेण वा
दध्ना क्षीरेण मधुना सर्पिषा सलिलेन वा
यः श्राद्धे भोजनं दद्याद्विप्रेभ्यः श्रद्धयान्वितः
व्रतोपवासैर्होमैर्वा नैवेद्यैश्चारुभिस्तथा
षष्टिवर्षसहस्राणि चोषित्वा दिवि ते ततः
ब्राह्मणाः क्षत्रियो वैश्यः शूद्रः स्त्री वापि सङ्गताः
मत्पार्षदास्ते जायन्ते सततं सहिताः सुरैः शैलेश्वरात्परं क्षेत्रं न क्वचिद्भुवि विद्यते
ब्रह्महा गुरुहा गोघ्नः स्पृष्टो वै सर्वपातकैः
विविधान्यत्र तीर्थानि सन्ति पुण्यानि देवताः
क्रोशं क्रोशं सुरै रूपं तच्च संहृत्य निर्मितम् 215.
तत्र स्नात्वा शुचिर्दान्तः सत्यसन्धो जितेन्द्रियः
अनाशकं व्रजेद्यस्तु दक्षिणेन महात्मनः
भृगुप्रपतनं कृत्वा कामक्रोधविवर्जितः