पूष्णोऽस्य दन्तान्तक भीमरूप प्रलम्बभोगीन्द्रलुलन्तकण्ठ । विशालदेहाच्युत नीलकण्ठ प्रसीद विश्वेश्वर विश्वमूर्त्ते ।। २१.
भगाक्षिसंस्फोटनदक्षकर्मा गृहाण भागं मखतः प्रधानम् । प्रसीद देवेश्वर नीलकण्ठ प्रपाहि नः सर्वगुणोपपन्न ।। २१.
सिताङ्गरागाप्रतिपन्नमूर्त्ते कपालधारिंस्त्रिपुरघ्न देव । प्रपाहि नः सर्वभयेषु चैव उमापते पुष्करनालजन्म ।। २१.
पश्याम ते देहगतान् सुरेश सर्गादयो वेदवराननन्त । साङ्गान् सविद्यान् सपदक्रमांश्च सर्वान् निलीनांस्त्वयि देवदेव ।। २१.
भव शर्व महादेव पिनाकिन् रुद्र ते हर । नताः स्म सर्वे विश्वेश त्राहि नः परमेश्वर ।। २१.
इत्थं स्तुतस्तदा देवैर्देवदेवो महेश्वरः । तुतोष सर्वदेवानां वाक्यं चेदमुवाच ह ।। २१.
रुद्र उवाच । भगस्य नेत्रं भवतु पूष्णो दन्तास्तथा मखः । दक्षस्याच्छिद्रतां यातु यज्ञश्चाप्यदितेः सुताः । पशुभावं तथा चापि अपनेष्यामि वो सुराः ।। २१.
मद्दर्शनेन यो जातः पशुभावो दिवौकसाम् । स मयाऽपहृतः सद्यः पतित्वं वो भविष्यति ।। २१.
अहं च सर्वविद्यानां पतिराद्यः सनातनः । अहं वै पतिभावेन पशुमध्ये व्यवस्थितः ।। २१.
अतः पशुपतिर्नाम मम लोके भविष्यति । ये मां यजन्ति तेषां स्याद् दीक्षा पाशुपती भवेत् ।। २१.
एवमुक्तेऽथ रुद्रेण ब्रह्मा लोकपितामहः । उवाच रुद्रं सस्नेहं स्मितपूर्वमिदं वचः ।। २१.
ध्रुवं पाशुपतिर्देव त्वं लोके ख्यातिमेस्यति । अयं च देवस्त्वन्नाम्ना लोके ख्यातिं गमिष्यति । आराध्यश्च समस्तानां देवादीनां गमिष्यसि ।। २१.
एवमुक्त्वा तदा ब्रह्मा दक्षं प्रोवाच बुद्धिमान् । गौरीं प्रयच्छ रुद्राय पूर्वमेवोपपादिताम् ।। २१.
एवमुक्त्वा तदा दक्षस्तां कन्यां ब्रह्मसन्निधौ । ददौ रुद्राय महते गौरीं परमशोभनाम् ।। २१.
स तां जग्राह विधिवद् रुद्रः परमशोभनाम् । दक्षस्य च प्रियं कुर्वन् बहुमानपुरःसरम् ।। २१.
गृहीतायां तु कन्यायां दाक्षायण्यां पितामहः । ददौ रुद्रस्य निलयं कैलासं सुरसन्निधौ ।। २१.
रुद्रोऽपि प्रययौ भूतैः समं कैलासपर्वतम् । देवाश्चापि यथास्थानं स्वं स्वं जग्मुर्मुदान्विताः । ब्रह्माऽपि दक्षसहितः प्राजापत्यं पुरं ययौ ।। २१.
महातपा उवाच । तस्मिन् निवसतस्तस्य रुद्रस्य परमेष्ठिनः । चुकोप गौरी देवस्य पितुर्वैरमनुस्मरन् ।। २२.
चिन्तयामास दक्षस्य अनेनापकृतं पुरा । यज्ञो विध्वंसितो यस्मात् तस्माच्चान्यां तनूमहम् ।। २२.
आराध्य तपसा तस्य गृहे भूत्वा व्रजाम्यहम् । कथं गच्छामि पितरं दक्षं क्षपितबान्धवम् ।। २२.
भवपत्नी च दुहिता एवं संचिन्त्य सुन्दरी । जगाम तपसे शैलं हिमवन्तं महागिरिम् ।। २२.
तत्र कालेन महता क्षपयन्ती कलेवरम् । स्वशरीराग्निना दग्धा ततः शैलसुताऽभवत् ।। २२.
उमा नामेति महती कृष्णा चेत्यभिधानतः । लब्ध्वा तु शोभनां मूर्तिं हिमवन्तगृहे शुभा ।। २२.
पुनस्तपश्चकारोग्रं देवं स्मृत्वा त्रिलोचनम् । असावेव पतिर्मह्यमित्युक्त्वा तपसि स्थिता ।। २२.
कुर्वन्त्या तत् तपश्चोग्रं हिमवन्ते महागिरौ । कालेन महता देवस्तपसाराधितस्तया ।। २२.
आजगामाश्रमं तस्या विप्रो भूत्वा महेश्वरः । वृद्धः शिथिलसर्वाङ्गः स्खलंश्चैव पदे पदे ।। २२.
कृच्छ्रात् तस्याः समीपं तु आगत्य द्विजसत्तमः । बुभुक्षितोऽस्मि मे देहि भद्रे भोज्यं द्विजस्य तु ।। २२.
एवमुक्ता तदा कन्या उमा शैलसुता शुभा । उवाच ब्राह्मणं भोज्यं दद्मि विप्र फलादिकम् । कुरु स्नानं द्रुतं विप्र भुञ्जस्वान्नं यदृच्छया ।। २२.
एवमुक्तस्तदा विप्रस्तस्य पार्श्वे महानदीम् । गङ्गां जगाम स्नानार्थी स्नानं कर्त्तुमवातरत् ।। २२.
स्नानं तु कुर्वता तेन रुद्रेण द्विजरूपिणा । भूत्वा मायामयं भीमं मकरं भयदर्शनम् । ग्राहितस्तु तदा विप्रस्तेन दुष्टेन मद्गुना ।। २२.