अन्तर्हितोऽन्तरिक्षस्थः प्रोवाचास्मानुपालभन्
सशरीरोऽहं युष्माभिर्वशाप्तः प्रगतस्त्वितः
यद्यहं सशरीरः स्यां गृहीत्वा स्थापितोऽभवम्
कामं शृंगाणि मेऽत्रैव श्लेष्मात्मकवनेऽमराः
अत्रापि महती व्युष्टिर्भविष्यति न संशयः
यावन्ति भुवि तीर्थानि ह्यासमुद्र सरांसि च
अहं पुनः शैलपतेः पादे हिमवतः शुभे
दीप्ततेजोमयशिराः शरीरं च चतुर्मुखम् 215.
तत्र नागह्रदे घोरे स्थास्याम्यन्तर्जले ह्यहम्
यदा वृष्णिकुलोत्पन्नः कृष्णचक्रेण पर्वतान्
तदा स देशो भविता सर्वम्लेच्छैरधिष्ठितः
वसिष्यंति च तं देशं ब्राह्मणैः संप्रवर्त्तितान्
ततो लिङ्गार्च्चनं तत्र प्रतिष्ठास्यंति पार्थिवाः
सम्यक्प्रवृत्ता राजानो भविष्यन्त्यायतौ स्थिताः
तत्र मामर्च्चयिष्यंति सर्वभूतानि सर्वदा
गत्वा शिवपुरं ते मां द्रक्ष्यंते दग्धकिल्बिषाः
क्षेत्रं हि मम तज्ज्ञेयं योजनानि चतुर्दश 215.
भागीरथ्याः शतगुणं पवित्रं तज्जलं स्मृतम्
मुक्त्वा देहं नरा यांति मम लोकं न संशयः
नियतं पुरुहूतस्य श्रिताः स्थाने वसंति ते
मुनयोऽप्सरसो यक्षा मोहिता मम मायया
तपस्तपोधनानां च सिद्धक्षेत्रं हि तत्कृतम्
कुरुक्षेत्रादपि बुधाः क्षेत्रमेतद्विशिष्यते
प्रभवन्ति यतः सर्वा गंगाद्याः सरितां वराः
सर्वे प्रस्रवणाः पुण्याः सर्वे पुण्याः शिलोच्चयाः
शैलेश्वर इति ख्यातः शरीरं यत्र मे स्थितम्
भागीरथी वेगवती कलुषं दहते नृणाम् 215.
पानावगाहनात्तस्यास्तारयेत्सप्त वै कुलान्
तत्र स्नात्वा दिवं यान्ति मृतास्ते त्वपुनर्भवाः
उद्धराम्यहमेतान्वै प्रीतः संसारसागरात्