तत उत्थाय ते देवाः सर्व एव शिलोच्चयात्
स्वर्लोकं ब्रह्मलोकं च नागलोकं च सर्वशः
खिन्नाः क्लिष्टाश्च सुभृशं न पुनस्तत्पदं विदुः
सशैलकाननोपेतां मार्गयद्भिर्हि तं सुरम्
विततेषु निकुञ्जेषु विहारेषु च सर्वतः
न प्रवृत्तिः क्वचिदपि शम्भोरासाद्यते सुरैः
न पश्यन्ति शिवं तत्र तदेषां भयमाविशत्
सम्भूयान्योऽन्यममरा मामेव शरणं ययुः
उपायमात्रं दृष्टं मे ध्यायंस्तद्वेषभूषणैः 215.
सर्वं त्रैलोक्यमस्माभिर्विचितं वै निरन्तरम्। श्लेश्मातकवनोद्देशं स्थानं मुक्त्वा महीतले
आगच्छध्वं गमिष्यामस्तमुद्देशं सुरोत्तमाः
तत्क्षणादेव सम्प्राप्ता विमानैः शीघ्रयायिभिः
तस्मिन्सुरमणीयानि विविधानि शुचीनि च
आश्रमारण्यभागेषु दरीणां विवरेषु च
प्रमुखे वासवं कृत्वा विविशुस्ते सुरास्तदा
कन्दरोदरकूटेषु तरूणां गहनेषु च
प्रविशन्तश्च ते देवा वनोद्देशं क्वचिच्छुभे
गिरिनद्यास्तु पुलिने हंसकुन्देंदुसन्निभे 215.
मुक्ताचूर्णनिकाशाभिर्वालुकाभिस्ततस्तत
तत्र ते विबुधा दृष्ट्वा सर्वे मां समचोदयन्
मुहूर्त्तं ध्यानमास्थाय विज्ञाता सा मया तदा
ततस्तदुच्चशिखरमारुह्य विबुधेश्वराः
मध्ये मृगसमूहस्य गोप्तारमिव संस्थितम्
चारुवक्त्राक्षिदशनं पृष्ठतः शुक्लबिन्दुभिः
बिम्बोष्ठं ताम्रजिह्वास्यं दंष्ट्रांकुरविराजितम्
तं दृष्ट्वा विबुधाः सर्वे शिखरात्प्रतिधाविताः
शृङ्गाग्रं प्रथमं धृत्वा गृहीत्वा वज्रपाणिना
जग्राह केशवश्चापि मूलं तस्य महात्मनः 215.
शक्रस्याग्रं स्थितं हस्ते मध्यं हस्ते मम स्थितम्
शृङ्गस्यैव गृहीतस्य त्रिधास्माकं मृगाधिपः