आशिषाऽनुगृहीतोऽस्मि नियोज्योऽहं सदा हि वः
आज्ञापयध्यमाज्ञप्तस्तस्माद्विबुधसत्तमाः
शक्र उवाच पश्यामो विप्र तं सर्वे देवानामधिपं विभुम्
स्थाणुमुग्रं शिवं देवं शर्वमेव स्वयं मुने
तत्स्थानं नः समाख्याहि महर्षे शीघ्रमेव हि
प्रत्युवाच ततः शक्रं नन्दी पशुपतिं स्मरन् श्रोतुमर्हसि देवेन्द्र यथातत्त्वं दिवस्पते
अस्मिन्गिरौ मुञ्जवति स्थाणुरभ्यर्च्चतो मया ८८ प्रीतो विनिर्गत इतस्तं विज्ञातुं बिभेम्यहम्
मार्गयामो हि यत्नेन भगवन्तं तु वासव ।। 214.
इति श्रीवराहपुराणे गोकर्णमाहात्म्ये नन्दिकेश्वरवरप्रदानं नाम चतुर्दशाधिकद्विशततमोऽ ध्यायः
; अथ गोकर्णेश्वरजलेश्वरमाहात्म्यवर्णनम् ततः शक्रः सुरगणैः सह सर्वैः समेत्य च
तत उत्थाय ते देवाः सर्व एव शिलोच्चयात्
स्वर्लोकं ब्रह्मलोकं च नागलोकं च सर्वशः
खिन्नाः क्लिष्टाश्च सुभृशं न पुनस्तत्पदं विदुः
सशैलकाननोपेतां मार्गयद्भिर्हि तं सुरम्
विततेषु निकुञ्जेषु विहारेषु च सर्वतः
न प्रवृत्तिः क्वचिदपि शम्भोरासाद्यते सुरैः
न पश्यन्ति शिवं तत्र तदेषां भयमाविशत्
सम्भूयान्योऽन्यममरा मामेव शरणं ययुः
उपायमात्रं दृष्टं मे ध्यायंस्तद्वेषभूषणैः 215.
सर्वं त्रैलोक्यमस्माभिर्विचितं वै निरन्तरम्। श्लेश्मातकवनोद्देशं स्थानं मुक्त्वा महीतले
आगच्छध्वं गमिष्यामस्तमुद्देशं सुरोत्तमाः
तत्क्षणादेव सम्प्राप्ता विमानैः शीघ्रयायिभिः
तस्मिन्सुरमणीयानि विविधानि शुचीनि च
आश्रमारण्यभागेषु दरीणां विवरेषु च
प्रमुखे वासवं कृत्वा विविशुस्ते सुरास्तदा
कन्दरोदरकूटेषु तरूणां गहनेषु च
प्रविशन्तश्च ते देवा वनोद्देशं क्वचिच्छुभे
गिरिनद्यास्तु पुलिने हंसकुन्देंदुसन्निभे 215.
मुक्ताचूर्णनिकाशाभिर्वालुकाभिस्ततस्तत
तत्र ते विबुधा दृष्ट्वा सर्वे मां समचोदयन्