नंदा च परनन्दा च तथा चर्मण्वती नदी
सिंधुश्च पुरुषश्चैव प्रभासः सोम एव च 214.
अन्यानि चापि मेदिन्यां तीर्थान्यायतनानि च
निजस्वरूपेणाजग्मुस्तत्र पुण्यान्यनेकशः
शैलोत्तमो महामेरुः कैलासो गन्धमादनः
विन्ध्यो महेन्द्रः सह्यश्च मलयो दर्दुरस्तथा
आगताः सर्व एवैते शैलेन्द्राः काननौकसः
सर्वे यज्ञाः सर्वविद्या वेदाश्चत्वार एव च
वासुकिश्च महाभागश्चामृताशी भुजङ्गराट्
फणींद्रो धृतराष्ट्रश्च किर्मीराङ्गश्च नागराट्
ख्यातस्त्रिभुवने धीमान्नहुषोऽनिमिषेश्वरः 214.
फणाशतधरो रूपी भूरिशृङ्ग इवाचलः
विनतो नागराजश्च कम्बलाश्वतरौ तथा
उरगानामधिपती कर्कोटकधनञ्जयौ
अहोरात्र तथा पक्षा मासाः संवत्सरास्तथा
ततश्चैवागतैर्देवैर्यक्षैः सिद्धैश्च सर्वशः
तस्मिन्देवसमाजे तु रम्ये शैलेन्द्रमूर्द्धनि
प्रगीता देवगन्धर्वाः प्रनृत्ताप्सरसां गणाः
पुण्यगन्धाः सुखस्पर्शास्तत्र वांति च वायवः
स हि तान्दैवराजेन सार्द्धमन्यैश्च दैवतैः 214.
सम्भ्रान्तः सहसा तेभ्यो नमस्कर्तुं प्रचक्रमे
अर्घ्यपाद्यादिभिः शीघ्रमासनैश्च न्यमन्त्रयत्
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि
विश्वावसुर्हाहाहूहू तथा नारदतुम्बुरू
तं वासुकिप्रभृतयः पन्नगेन्द्रा महौजसः
यक्षविद्याधराश्चैव ग्रहाः सागरपर्वताः
आशिषः प्रददुस्तस्य सर्व एव मुदान्विता स सुप्रीतोऽस्तु ते देवः सदा पशुपतिर्मुने
सर्वत्र चाप्रतिहता गतिश्चास्तु तवानघ
निरामयोऽमृतीभूतश्चरिष्यति विभुः सुखी 214.
इत्युक्तस्त्रिदशैर्नन्दी पुनस्तान्प्रत्युवाच ह यद्भवद्भिः प्रियं सर्वैः प्रीतिमद्भिः सुरोत्तमैः