तेनास्मि परमप्रीत आदृतः परमेष्ठिना वयं तं वरदं देवं द्रक्ष्यामस्ते वरप्रदम्
तवैष तपसा तुष्टः स्वयं प्रत्यक्षताङ्गतः
कुत्र द्रक्ष्यामहे देवं भगवन्तं कपालिनम् अनुगृह्य तु मां देवस्तत्रैवादर्शनं गतः ।।214.
न जाने कुत्र वा देवं कुत्रास्ते तद्गवेष्यताम् किमत्र नन्दिनं देवो येनासौ नोक्तवान्प्रभुम्
तन्मे कथय देवेश गुह्यं किं चास्ति शूलिनः यदुक्तवान्महेशानो नाख्येयोऽस्मि पुरान्जनि
किमुक्तवान्महादेवो नन्दिनं तच्छृणुष्व मे अस्ति कश्चित्समुद्देशः क्षितेः सिद्धोऽद्रिसंकटः
पारे हिमवतः पुण्ये तपोवनगणैर्युतः
सोऽनुग्राह्यो मयावश्यं तपसा दग्धकिल्बिषः
तस्य नाम्ना च तत्स्थानं दिव्यं चिरतपोभृतम्
मृगरूपेण चरता तत्र वै त्रिदशा मया
नाख्यातव्यं त्वया तेषां देवताप्सरसामिदम्
विद्योतयन्दिशः सर्वास्त्रिदशैः परिवारितः
कामगं रथमारुह्य महेन्द्रः समरुद्गणः 214.
गणावृतश्च वरदो वरुणो यादसांपतिः
तप्तकाञ्चनवर्णेन रत्नचित्रेण भास्वता
विमानशत कोटीभिरागतो यक्षराक्षसैः
अधिष्ठितः सुकृतिभिः प्रायाद्वैवस्वतोपमः
विमानैरग्नितुल्याभैराजग्मुः खान्महीधरम्
आगतावश्विनौ देवौ मौञ्जवन्तं महागिरिम्
संछाद्यैरावतपथं सहसाभ्याययुर्द्रुतम्
संप्राप्तस्तं गिरिवरं मयूरशतनादितम्
हाहाहूहूस्तथा चान्ये सर्वे गन्धर्वसत्तमाः
अनिलश्चानलश्चैव धर्मः सत्यो ध्रुवोऽपरः 214.
गुह्यकाश्च महात्मानः सर्व एव समागताः
उर्वशी मेनका रंभा पंचस्या च तथापरा
पुलस्त्योऽत्रिर्मरीचिश्च वसिष्ठो भृगुरेव च
भारद्वाजोऽग्निवेश्यश्च तथा वृद्धपराशरः
मरीचिर्जमदग्निश्च भार्गवश्च्यवनस्तथा
शतद्रूश्च विपाशा च गंडकी च सरिद्वरा
गोदावरी च वेणी च तापी च सरिदुत्तमा