देवदानवगन्धर्वा यक्षराक्षसपन्नगाः
त्वयि तुष्टे ह्यहं तुष्टः कुपिते कुपितस्त्वहम् 213.
एवं तस्मै वरान्दत्त्वा प्रीतः स्वयमुमापतिः
आगतान्विद्धि सर्वान्वै त्रिदशान्समरुद्गणान्
यदीरितं मया वत्स वरं प्रतिवचस्त्वयि
नारायणं पुरस्कृत्य सेन्द्रास्ते समरुद्गणाः
यक्षविद्याधरगणाः सिद्धगन्धर्वपन्नगाः
ते बुद्ध्वा त्वद्गतामृद्धि प्रतप्ताः परमेर्ष्यया
चर्तुं समभिवाञ्छन्ति सदाभ्यासे वरार्थिनः
अत्रैते यावदागम्य न मां पश्यन्ति मानवाः
अद्य ते तु मया सर्वे देवा ब्रह्मपुरोगमाः
अभिप्रायं च सर्वेषां जानामि द्विजसत्तम 213.
इति श्रीवराहपुराणे भगवच्छास्त्रे गोकर्णेश्वरमाहात्म्ये त्रयोदशाधिकद्विशततमोऽ ध्यायः
; पुनः गोकर्णमाहात्म्यनन्दिकेश्वरवरप्रदानवर्णनम् अन्तर्हितं ततस्तस्मिन्भवे वै भूतनायके
चतुर्भुजस्त्रिणयनो दिव्यसंस्थानसंस्थितः
त्रिशूली परिघी दण्डी पिनाकी मौञ्जमेखली
आस्थितः पादमाकृष्य ह्याह्वयन्निव स द्विजः
तं दृष्ट्वा खेचराः सर्वा देवताः परिशंकिताः
तेभ्यः श्रुत्वा सहस्राक्षः सर्वे चान्ये दिवौकसः
अयं कश्चिद्वरं लब्ध्वा ह्युमाकान्तान्महेश्वरात्
यादृशोऽस्य महोत्साहस्तेजोबलसमन्वितः
यावच्चैवोजसा नाकमसौ चंक्रमते प्रभुः
एवमुक्त्वा तु ते तत्र मया सह सुरोत्तमाः 214.
विधाता भगवान्विष्णुः प्रभुस्त्रिभुवनेश्वरः
कृतेन तेन विबुधाः पश्यन्ति मुनयश्च तं
जगाम तत्र यत्रासौ नन्दी तिष्ठति देववत् सफलं जीवितं मेऽद्य सफलश्च परिश्रमः
यन्मे दृष्टः सुराध्यक्षः सर्वलोकगुरुर्हरिः
यच्च मे प्रभुरव्यग्रः प्रीतः पापहरो हरः
परो मेऽनुग्रहः सोऽत्र पूतोऽस्मि खलु साम्प्रतम्
मामुद्दिश्य हितं तथ्यं तथैव च न चान्यथा