तथाहं भक्तिमिच्छामि सर्वभूताशये त्वयि
कोटिजप्येन रुद्राणामाराधनपरस्य च 213.
प्रहस्योवाच तं प्रीत्या ततो मधुरया गिरा
आराधितश्च भक्त्याहं त्वया शुद्धेन चेतसा
निवर्त्तयति मां वत्स मत्पादाराधने रतः
पूर्णं वर्षसहस्रं च तपस्तीव्रं महामुने
कृतं सुमहदाश्चर्यं त्वया कर्म सुदुष्करम्
आगमिष्यन्ति ते द्रष्टुं देवाः सर्वे सवासवाः
दिव्यतेजोवपूः श्रीमान्दिव्याभरणभूषितः
मद्रूपधारी मत्तेजास्त्र्यक्षः सर्वगुणोत्तमः
अनेनैव शरीरेण जरामरणवर्जितः
पार्षदानां वरिष्ठस्त्वं मामकानां द्विजोत्तम 213.
प्राप्तमष्टगुणं सत्यमैश्वर्यं ते तपोधन
अद्यप्रभृति देवाग्र्य देवकार्येषु सर्वतः
त्वामेवाभ्यर्च्चयिष्यन्ति सर्वभूतानि सर्वतः
वरान्वरार्थिनां दाता विधाता जगतः सदा
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु
द्वारे तु दक्षिणे नित्यं त्वया स्थेयं गणाधिप
प्रतीहारो भवानद्य सर्वदा त्रिदशोत्तमः
न वज्रेण न दण्डेन न चक्रेण न चाग्निना
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः
त्वयि तुष्टे ह्यहं तुष्टः कुपिते कुपितस्त्वहम् 213.
एवं तस्मै वरान्दत्त्वा प्रीतः स्वयमुमापतिः
आगतान्विद्धि सर्वान्वै त्रिदशान्समरुद्गणान्
यदीरितं मया वत्स वरं प्रतिवचस्त्वयि
नारायणं पुरस्कृत्य सेन्द्रास्ते समरुद्गणाः
यक्षविद्याधरगणाः सिद्धगन्धर्वपन्नगाः
ते बुद्ध्वा त्वद्गतामृद्धि प्रतप्ताः परमेर्ष्यया
चर्तुं समभिवाञ्छन्ति सदाभ्यासे वरार्थिनः
अत्रैते यावदागम्य न मां पश्यन्ति मानवाः