वरदस्तत्र भगवान्स्थाणुर्नाम महेश्वरः
भक्तानुकम्पी स श्रीमान्गिरीन्द्रसुतया सह
विमानयायिनः सर्वे तं देवमजमव्ययम्
अन्ये देवनिकायाश्च सेवितुं प्रपतन्ति तम् 213.
आरिराधयिषुः शर्वं तपस्तेपे सुदारुणम्
ऊर्ध्वबाहुर्निरालम्बस्तोयाऽनिलहुताशनैः
जपपुष्पोपहारैश्च कालेकाले मुनिः सदा
उग्रेण तपसात्मानं योजयामास सुव्रतः
क्षामोऽभूत्कृष्णवर्णश्च ततः प्रीतश्च शङ्करः
अदृश्यं पश्य मे रूपं वत्स प्रीतोऽस्मि ते मुने
सहस्रसूर्यकिरणं ज्वालामालिनमूर्जितम्
जटाजूटतटाश्लिष्टं चन्द्रालंकृतशेखरम्
प्रादेशमात्रं रुचिरं शतशीर्षं शतोदरम् 213.
अणीयसामणीयांसं बृहतां तु बृहत्तरम्
दृष्ट्वा देवं महादेवं हृष्टरोमा महातपाः
प्राञ्जलिः प्रणतो भूत्वाऽगृणाद्ब्रह्म सनातनम्
जगद्भोक्त्रे त्रिनेत्राय शंकराय शिवाय च
नीलकण्ठाय भीमाय भूतभव्यभवाय च
गणानां पतये स्रष्ट्रे संक्षेप्त्रे भीषणाय च
प्रेतावासनिवासाय रुद्राय वरदाय च
भक्तप्रियाय सततं नमोऽस्तु परमात्मने
प्रणम्य शिरसा देवं पुनः पुनरवन्दत ।। ततस्तु भगवान्प्रीतस्तस्मै विप्राय शंकरः। ।। 213.
उवाच च वचः साक्षात्तमृषिं वरदः प्रभुः
तांस्ते सर्वान्प्रयच्छामि दुर्ल्लभानपि मारिष
ब्रह्मत्वं लोकपालत्वमपवर्गमथापि वा
यदिच्छसि मुने शीघ्रं तद्ब्रूहि द्विजपुङ्गव
प्रोवाच वरदं देवं प्रहृष्टेनान्तरात्मना
ब्रह्मत्वं लोकपालत्वं नापवर्गं वरप्रद
स्पृहये देवदेवेश प्रसन्ने त्वयि शंकर
अनुग्राह्यो ह्ययं देव त्वयावश्यं सुराधिप