क्व यात पौरुषं त्यक्त्वा दर्पं माहात्म्यमेव च । व्यवसायं कुलं भूतिं कथं न स्मर्यते द्रुतम् ।। २१.
परमेष्ठिगुणैर्युक्तो लघुवद्भीतितः पुरा । नमस्कं कुरुते मोघं पृथिव्यां पद्मजः स्वयम् ।। २१.
एवमुक्त्वा गरुत्मन्तमारुरोह हरिस्तदा । शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ।। २१.
ततो हरिहरं युद्धमभवल्लोमहर्षणम् । रुद्रः पाशुपतास्त्रेण विव्याध हरिमोजसा । हरिर्नारायणास्त्रेण रुद्रं विव्याध कोपवान् ।। २१.
नारायणं पाशुपतमुभेऽस्त्रे व्योम्नि रोषिते । युयुधाते भृशं दिव्यं परस्परजिघांसया । दिव्यं वर्षसहस्त्रं तु तयोर्युद्धमभूत् तदा ।। २१.
तत्रैकं मुकुटोद्बद्धं मूर्द्धन्यं जटजालकम् । एकं प्रध्मापयच्छङ्खमन्यडुमरुकं शुभम् ।। २१.
एकं खङ्गकरं तत्र तथाऽन्यं दण्डधारिणम् । एकं कौस्तुभदीप्ताङ्गमन्यं भूतिविभूषितम् ।। २१.
एकं गदां भ्रामयति द्वितीयं दण्डमेव च । एकं शोभति कण्ठस्थैर्मणिभिस्त्वस्थिभिः परम् । एकं पीताम्बरं तत्र द्वितीयं सर्पमेखलम् ।। २१.
एवं तौ स्पर्द्धिनावस्त्रौ रौद्रनारायणात्मकौ । अन्योऽन्यातिशयोपेतौ तदालोक्य पितामहः ।। २१.
उवाच शाम्यतामस्त्रौ स्वस्वभावेन सुव्रतौ । एवं ते ब्रह्मणा चोक्तौ शान्तभावं प्रजग्मतुः ।। २१.
तथा विष्णुहरौ ब्रह्मा वाक्यमेतदुवाच ह । उभौ हरिहरौ देवौ लोके ख्यातिं गमिष्यथः ।। २१.
अयं च यज्ञो विध्वस्तः संपूर्णत्वं गमिष्यति । दक्षस्य ख्यातिमाँल्लोकः संतत्याऽयं भविष्यति ।। २१.
एवमुक्त्वा हरिहरौ तदा लोकपितामहः । ब्रह्मा लोकानुवाचेदं रुद्रभागोऽस्य दीयताम् ।। २१.
रुद्रभागो ज्येष्ठभाग इतीयं वैदिकी श्रुतिः । स्तुतिं च देवाः कुरुत रुद्रस्य परमेष्ठि नः ।। २१.
भगनेत्रहरं देवं पूष्णो दन्तविनाशनम् । स्तुतिं कुरुतमा शीघ्रं गीतैरेतैस्तु नामभिः । येनायं वः प्रसन्नात्मा वरदत्वं भजेत ह ।। २१.
एवमुक्तास्तु ते देवाः स्तोत्रं शंभोर्महात्मनः । चक्रुः परमया भक्त्या नमस्कृत्य स्वयंभुवे ।। २१.
देवा ऊचुः । नमो विषमनेत्राय नमस्ते त्र्यम्बकाय च । नमः सहस्त्रनेत्राय नमस्ते शूलपाणये ।। २१.
नमः खट्वाङ्गहस्ताय नमो दण्डभृते करे । त्वं देव हुतभुग्ज्वालाकोटिभानुसमप्रभः ।। २१.
अदर्शनेऽनयद् देव मूढविज्ञानतोऽधुना । कृतमस्माभिरेवेश तदत्र क्षम्यतां प्रभो ।। २१.
नमस्त्रिनेत्रार्त्तिहराय शंभो त्रिशूलपाणे विकृतास्यरूप । समस्तदेवेश्वर शुद्धभाव प्रसीद रुद्राच्युत सर्वभाव ।। २१.
पूष्णोऽस्य दन्तान्तक भीमरूप प्रलम्बभोगीन्द्रलुलन्तकण्ठ । विशालदेहाच्युत नीलकण्ठ प्रसीद विश्वेश्वर विश्वमूर्त्ते ।। २१.
भगाक्षिसंस्फोटनदक्षकर्मा गृहाण भागं मखतः प्रधानम् । प्रसीद देवेश्वर नीलकण्ठ प्रपाहि नः सर्वगुणोपपन्न ।। २१.
सिताङ्गरागाप्रतिपन्नमूर्त्ते कपालधारिंस्त्रिपुरघ्न देव । प्रपाहि नः सर्वभयेषु चैव उमापते पुष्करनालजन्म ।। २१.
पश्याम ते देहगतान् सुरेश सर्गादयो वेदवराननन्त । साङ्गान् सविद्यान् सपदक्रमांश्च सर्वान् निलीनांस्त्वयि देवदेव ।। २१.
भव शर्व महादेव पिनाकिन् रुद्र ते हर । नताः स्म सर्वे विश्वेश त्राहि नः परमेश्वर ।। २१.
इत्थं स्तुतस्तदा देवैर्देवदेवो महेश्वरः । तुतोष सर्वदेवानां वाक्यं चेदमुवाच ह ।। २१.
रुद्र उवाच । भगस्य नेत्रं भवतु पूष्णो दन्तास्तथा मखः । दक्षस्याच्छिद्रतां यातु यज्ञश्चाप्यदितेः सुताः । पशुभावं तथा चापि अपनेष्यामि वो सुराः ।। २१.
मद्दर्शनेन यो जातः पशुभावो दिवौकसाम् । स मयाऽपहृतः सद्यः पतित्वं वो भविष्यति ।। २१.
अहं च सर्वविद्यानां पतिराद्यः सनातनः । अहं वै पतिभावेन पशुमध्ये व्यवस्थितः ।। २१.
अतः पशुपतिर्नाम मम लोके भविष्यति । ये मां यजन्ति तेषां स्याद् दीक्षा पाशुपती भवेत् ।। २१.