कथमुत्तर गोकर्णं दक्षिणं च कथं विभो
क्षेत्रस्य कि प्रमाणं स्यात्किञ्च तीर्थफलं स्मृतम्
सर्वैस्त्वत्प्रमुखैर्देवैः कथमासादितं पुनः
यथा यत्र च यस्तत्र विधिः सम्यगनुष्ठितः 213.
एवमुक्तः स भगवान्ब्रह्मा ब्रह्मविदां वरः
ब्रह्मोवाच पुराणमेतद्ब्रह्मर्षे सरहस्यं यथाश्रुतम्
अस्ति भूधरराजस्य मन्दरस्योत्तरे शुचौ
वज्रस्फटिकपाषाणः प्रवालांकुरशर्क्करः
विचित्रकुसुमोपेतैर्लतामञ्जीरधारिभिः
दर्यस्तत्राधिकं रेजुर्नानाधातुपरिस्रवैः
तेऽत्र केतकिखण्डाश्च कुंदखंडाश्च पुष्पिताः
भिन्नेन्द्रनीलविमलैर्धौतैः प्रस्रवणाम्बुभिः
शक्रचापनिभै रम्यैः कुबेरभवनद्युतौ
क्रीडद्भिर्देवमिथुनेर्नृत्यद्भिश्चाप्सरोगणैः 213.
कल्हारकुसुमोपेते हंससारससेविते
गजयूथानुकीर्णाभिर्जुष्टाभिर्मृगपक्षिभिः
किन्नरोद्गीतकुहरे परपुष्टनिनादिते
धारापातैश्च तोयानां विस्फुलिङ्गैः सहस्रशः
सर्वर्तुकवनोद्याने पुष्पाकरसुशोभिते
तस्मिन्गिरिवरे रम्ये सेवितव्ये सुशोभने
वरदस्तत्र भगवान्स्थाणुर्नाम महेश्वरः
भक्तानुकम्पी स श्रीमान्गिरीन्द्रसुतया सह
विमानयायिनः सर्वे तं देवमजमव्ययम्
अन्ये देवनिकायाश्च सेवितुं प्रपतन्ति तम् 213.
आरिराधयिषुः शर्वं तपस्तेपे सुदारुणम्
ऊर्ध्वबाहुर्निरालम्बस्तोयाऽनिलहुताशनैः
जपपुष्पोपहारैश्च कालेकाले मुनिः सदा
उग्रेण तपसात्मानं योजयामास सुव्रतः
क्षामोऽभूत्कृष्णवर्णश्च ततः प्रीतश्च शङ्करः
अदृश्यं पश्य मे रूपं वत्स प्रीतोऽस्मि ते मुने