वैशंपायन उवाच केचिद्वैखानसास्तत्र केचिदासन्निरासनाः
साधु साध्विति चैवोक्त्वा विस्मयोत्फुल्ललोचनाः 212.
शालानीश्च तथा केचित्कापोतीवृत्तिमास्थिताः
शिलोंच्छाश्च तथैवान्ये काष्ठान्ताश्च महौजसः
नानाविधिधराः केचिज्जितात्मानस्तु केचन
तथोर्द्ध्वशायिकाश्चान्ये तथान्ये मृगचारिणः
अब्भक्षा वायुभक्षाश्च तथान्ये शाकभक्षिणः
तपसोऽन्यन्न चास्तीति चिन्तयित्वा पुनः पुनः
त्यक्त्वा धर्ममधर्मं च शाश्वतीं धियमास्थिताः
जगृहुर्नियमांस्तांस्तान्भयहेतोरनिन्दिताः
प्रीत्या परमया युक्तो धर्ममेवान्वचिन्तयत्
चिन्तयामास धर्मात्मा तपः परममास्थितः 212.
शृणुयाच्छ्रावयेद्वापि सर्वकामानवाप्नुयात्
इति श्रीवराहपुराणे प्रागितिहासे संसारचक्रोपाख्याने प्रबोधनीयं नाम द्वादशाधिकद्विशततमोऽध्यायः
; अथ गोकर्णेश्वरमाहात्म्यम् पुरा देवैर्विनिहते संग्रामे तारकामये
सहस्राक्षे लब्धपदे क्षीणशत्रौ गतास्पदे
शृङ्गे चैवाचलेन्द्रस्य मेरोः सर्वहिरण्यये
सुखोपविष्टमेकाग्रं स्थिरचित्तं कृतेक्षणम्
प्रणम्य मूर्ध्ना चरणावुपगृह्य समाहितः
सनत्कुमार उवाच पुराणं तु महाभाग त्वत्तस्तत्त्वविदां वर
कथमुत्तर गोकर्णं दक्षिणं च कथं विभो
क्षेत्रस्य कि प्रमाणं स्यात्किञ्च तीर्थफलं स्मृतम्
सर्वैस्त्वत्प्रमुखैर्देवैः कथमासादितं पुनः
यथा यत्र च यस्तत्र विधिः सम्यगनुष्ठितः 213.
एवमुक्तः स भगवान्ब्रह्मा ब्रह्मविदां वरः
ब्रह्मोवाच पुराणमेतद्ब्रह्मर्षे सरहस्यं यथाश्रुतम्
अस्ति भूधरराजस्य मन्दरस्योत्तरे शुचौ
वज्रस्फटिकपाषाणः प्रवालांकुरशर्क्करः
विचित्रकुसुमोपेतैर्लतामञ्जीरधारिभिः
दर्यस्तत्राधिकं रेजुर्नानाधातुपरिस्रवैः