जन्मान्तरसहस्रेषु समाराध्य वृषध्वजम्
पापक्षयमवाप्नोति चेश्वराराधने कृते
मामाराध्य तथा याति तद्विष्णोः परमं पदम् 211.
संस्मृतः कीर्तितो वापि दृष्टः स्पृष्टोऽपि वा प्रिये
एतज्ज्ञात्वा तु विद्वद्भिः पूजनीयो जनार्दनः
यम उवाच समाराध्य जगन्नाथं विधिना तल्लयङ्गता
तेषां नैवास्त्ययं लोको यान्ति तत्परमं पदम्
प्रबोधनाख्यां सुधियस्ते यांति परमं पदम्
पश्यंति द्विजशार्दूल इति सत्यं मयोदितम्
कथितं मे महाभाग यत्त्वया परिपृच्छितम्
तत्ते सर्वं समासेन व्याख्यातं धर्मवत्सल
इति श्रीवराहपुराणे पापनाशोपायवर्णनं नामैकादशाधिकद्विशततमोऽध्यायः
अथ संसारचक्रोपाख्याने प्रबोधनीयवर्णनम् साधु साधु महाराज सर्वधर्मविदां वर
अतोऽहमपि सुप्रीतस्तव धर्मपथे स्थितः
त्वयाहं चैव राजेन्द्र पूजितश्च विशेषतः
स्वस्ति तेऽस्तु महाराज त्वकम्पो भव सुव्रत
तेजसा द्योतयन्सर्वं गगनं भास्करो यथा
गते तस्मिंस्तु सुचिरं स राजा धर्मवत्सलः
कृत्वा पूजां च मे युक्तां प्रियमुक्त्वा च सुव्रत
एतद्वः कथितं विप्रास्तस्य राज्ञः पुरोत्तमे
वैशंपायन उवाच केचिद्वैखानसास्तत्र केचिदासन्निरासनाः
साधु साध्विति चैवोक्त्वा विस्मयोत्फुल्ललोचनाः 212.
शालानीश्च तथा केचित्कापोतीवृत्तिमास्थिताः
शिलोंच्छाश्च तथैवान्ये काष्ठान्ताश्च महौजसः
नानाविधिधराः केचिज्जितात्मानस्तु केचन
तथोर्द्ध्वशायिकाश्चान्ये तथान्ये मृगचारिणः
अब्भक्षा वायुभक्षाश्च तथान्ये शाकभक्षिणः
तपसोऽन्यन्न चास्तीति चिन्तयित्वा पुनः पुनः
त्यक्त्वा धर्ममधर्मं च शाश्वतीं धियमास्थिताः
जगृहुर्नियमांस्तांस्तान्भयहेतोरनिन्दिताः