पंचामृतेन संस्नाप्य कुंकुमेन विलेपितम्
पूजयेत् कमलैर्देवि मद्भक्तः संयतेन्द्रियः
रामं रामं च कृष्णं च बुद्धं चैव च कल्किनम्
पुष्पैर्धूपैस्तथा दीपनैवद्यैर्विविधैरपि 211.
रात्रौ चोत्थापनं कार्यं देवदेवस्य सुव्रते
पुष्पधूपादिनैवेद्यैः फलैर्नानाविधैः शुभैः
अलङ्कारोपहारैश्च वस्त्राद्यैश्च स्वशक्तितः
जगदादिर्जगद्रूपो जगदादिरनादिमान्
यदि वक्त्रसहस्राणां सहस्राणि भवन्ति तैः
तथाप्युद्देशमात्रेण शक्त्या वक्ष्यामि तच्छृणु
सहैव यानमागच्छेन्मम लोकं वसुन्धरे
आयुरारोग्यसंपन्नो जन्मातीतो भवेत्ततः
पापान्येतानि सर्वाणि श्रवणेनैव नाशयेत्।।211.
पश्ये च धीमानधनोऽपि भक्त्या स्पृशेन्मनुष्यं इह चिन्त्यमानः
दुःस्वप्नः प्रशममुपैति पठ्यमाने माहात्म्ये भवभयहारके नरस्य
ते धन्यास्ते कृतार्थाश्च तैरेव सुकृतं कृतम्
नारायणाच्युतानन्त वासुदेवेति यो नरः
किं पुनः श्रद्धया युक्तः पूजयेन्मामनन्यधीः
तस्य यज्ञवराहस्य विष्णोरमिततेजसः
तस्मात् सुनियतैर्भाव्यं वैष्णवं मार्गमास्पदम्
जन्मान्तरसहस्रेषु समाराध्य वृषध्वजम्
पापक्षयमवाप्नोति चेश्वराराधने कृते
मामाराध्य तथा याति तद्विष्णोः परमं पदम् 211.
संस्मृतः कीर्तितो वापि दृष्टः स्पृष्टोऽपि वा प्रिये
एतज्ज्ञात्वा तु विद्वद्भिः पूजनीयो जनार्दनः
यम उवाच समाराध्य जगन्नाथं विधिना तल्लयङ्गता
तेषां नैवास्त्ययं लोको यान्ति तत्परमं पदम्
प्रबोधनाख्यां सुधियस्ते यांति परमं पदम्
पश्यंति द्विजशार्दूल इति सत्यं मयोदितम्
कथितं मे महाभाग यत्त्वया परिपृच्छितम्