एवमुक्तास्ततो देवा ऊचुर्मातामहं तदा । दक्ष तात किमत्रास्मत्कार्यं ब्रूहि विवक्षितम् ।। २१.
दक्ष उवाच । गृह्यन्तां द्रुतमस्त्राणि संग्रामोऽत्र विधीयताम् । एवमुक्ते तदा देवैर्विविधायुधधारिभिः । रुद्रस्यानुचरैः सार्धं महद्युद्धं प्रवर्तितम् ।। २१.
तत्र वेतालभूतानि कूष्माण्डा ग्रहपूतनाः । युयुधुर्लोकपालैश्च नानाशस्त्रधराणि च ।। २१.
देवा रौद्राणि भूतानि निरसन्तो यमालयम् । चिक्षिपुः सायकान् घोरानसींश्च सपरश्वधान् ।। २१.
भूतान्यपि मृधे धोराण्युल्मुकैरस्थिभिः शरैः । जग्मुर्देवान् मृधे रोषाद् रुद्रस्य पुरतो बलात् ।। २१.
ततस्तस्मिन् महारौद्रे संग्रामे भीमरूपिणि । रुद्रो भगस्य नेत्रे तु बिभेदैकेषुणा मृधे ।। २१.
रुद्रस्य शरपातेन नष्टनेत्रं भगं तदा । दृष्ट्वाऽस्य क्रोधात् तेजस्वी पूषा रुद्रमयोधयत् ।। २१.
सृजन्तमिषुजालानि पूषणं तु महामृधे । दृष्ट्वा रुद्रोऽस्य दन्तांस्तु चकर्षं परवीरहा ।। २१.
तस्य दन्तांस्तदा दृष्ट्वा पूष्णो रुद्रेण पातितान् । दुद्रुवुः वसवो दिक्षु रुद्रास्त्वेकादश द्रुतम् ।। २१.
तान् भग्नान् सहसा दिक्षु दृष्ट्वा विष्णुः प्रतापवान् । आदित्यावरजो वाक्यमुवाच स्वबलं तदा ।। २१.
क्व यात पौरुषं त्यक्त्वा दर्पं माहात्म्यमेव च । व्यवसायं कुलं भूतिं कथं न स्मर्यते द्रुतम् ।। २१.
परमेष्ठिगुणैर्युक्तो लघुवद्भीतितः पुरा । नमस्कं कुरुते मोघं पृथिव्यां पद्मजः स्वयम् ।। २१.
एवमुक्त्वा गरुत्मन्तमारुरोह हरिस्तदा । शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ।। २१.
ततो हरिहरं युद्धमभवल्लोमहर्षणम् । रुद्रः पाशुपतास्त्रेण विव्याध हरिमोजसा । हरिर्नारायणास्त्रेण रुद्रं विव्याध कोपवान् ।। २१.
नारायणं पाशुपतमुभेऽस्त्रे व्योम्नि रोषिते । युयुधाते भृशं दिव्यं परस्परजिघांसया । दिव्यं वर्षसहस्त्रं तु तयोर्युद्धमभूत् तदा ।। २१.
तत्रैकं मुकुटोद्बद्धं मूर्द्धन्यं जटजालकम् । एकं प्रध्मापयच्छङ्खमन्यडुमरुकं शुभम् ।। २१.
एकं खङ्गकरं तत्र तथाऽन्यं दण्डधारिणम् । एकं कौस्तुभदीप्ताङ्गमन्यं भूतिविभूषितम् ।। २१.
एकं गदां भ्रामयति द्वितीयं दण्डमेव च । एकं शोभति कण्ठस्थैर्मणिभिस्त्वस्थिभिः परम् । एकं पीताम्बरं तत्र द्वितीयं सर्पमेखलम् ।। २१.
एवं तौ स्पर्द्धिनावस्त्रौ रौद्रनारायणात्मकौ । अन्योऽन्यातिशयोपेतौ तदालोक्य पितामहः ।। २१.
उवाच शाम्यतामस्त्रौ स्वस्वभावेन सुव्रतौ । एवं ते ब्रह्मणा चोक्तौ शान्तभावं प्रजग्मतुः ।। २१.
तथा विष्णुहरौ ब्रह्मा वाक्यमेतदुवाच ह । उभौ हरिहरौ देवौ लोके ख्यातिं गमिष्यथः ।। २१.
अयं च यज्ञो विध्वस्तः संपूर्णत्वं गमिष्यति । दक्षस्य ख्यातिमाँल्लोकः संतत्याऽयं भविष्यति ।। २१.
एवमुक्त्वा हरिहरौ तदा लोकपितामहः । ब्रह्मा लोकानुवाचेदं रुद्रभागोऽस्य दीयताम् ।। २१.
रुद्रभागो ज्येष्ठभाग इतीयं वैदिकी श्रुतिः । स्तुतिं च देवाः कुरुत रुद्रस्य परमेष्ठि नः ।। २१.
भगनेत्रहरं देवं पूष्णो दन्तविनाशनम् । स्तुतिं कुरुतमा शीघ्रं गीतैरेतैस्तु नामभिः । येनायं वः प्रसन्नात्मा वरदत्वं भजेत ह ।। २१.
एवमुक्तास्तु ते देवाः स्तोत्रं शंभोर्महात्मनः । चक्रुः परमया भक्त्या नमस्कृत्य स्वयंभुवे ।। २१.
देवा ऊचुः । नमो विषमनेत्राय नमस्ते त्र्यम्बकाय च । नमः सहस्त्रनेत्राय नमस्ते शूलपाणये ।। २१.
नमः खट्वाङ्गहस्ताय नमो दण्डभृते करे । त्वं देव हुतभुग्ज्वालाकोटिभानुसमप्रभः ।। २१.
अदर्शनेऽनयद् देव मूढविज्ञानतोऽधुना । कृतमस्माभिरेवेश तदत्र क्षम्यतां प्रभो ।। २१.
नमस्त्रिनेत्रार्त्तिहराय शंभो त्रिशूलपाणे विकृतास्यरूप । समस्तदेवेश्वर शुद्धभाव प्रसीद रुद्राच्युत सर्वभाव ।। २१.