एतैश्चान्यैश्च पापैश्च संसक्ता ये नरा विभो
श्रीवराह उवाच रहस्यं ते प्रवक्ष्यामि लोकानां हितकाम्यया
महापातकयुक्ता ये नराः सुकृतवर्जिताः
या सा विष्णोः परा शक्तिरव्यक्तानेकरूपिणी 211.
तामुपोष्य नरा भद्रे महापापरताश्च ये
उपायोऽतःपरो नान्यो विद्यते हि वसुन्धरे
यथा शुक्ला तथा कृष्णा ह्युपोष्या सा प्रयत्नतः
तस्मात्सर्वप्रयत्नेन कर्त्तव्या द्वादशी सदा
मनसा वचसा चैव कर्मणा समुपार्जितम्
दहन्तीह पुराणानि भूयोभूयो वरानने
यदीच्छथ नरा गन्तुं तद्विष्णोः परमं पदम्
ऊर्ध्वबाहुर्विरौम्येष प्रलापं मे शृणुष्व तम्
न शंखेन पिबेत्तोयं न हन्यान्मत्स्यसूकरौ
स ब्रह्महा सुरापश्च स स्तेयी गुरुतल्पगः 211.
किं तेन न कृतं पापं दुर्वृत्तेनात्मघातिना
एकादशीं च यः शुक्लामसमर्थं उपोषितुम्
एकभक्तेन दानेन कर्त्तव्यं द्वादशीव्रतम्
महापातकभागी स्यात्सुगतिं नाप्नुयात्क्वचित्
एका सा द्वादशी पुण्या उपोष्या सा प्रबोधिनी
प्राप्नोति सकलं चैतद्द्वादशद्वादशीफलम्
अतीव महती तस्यां सर्वं कृतमिहाक्षयम्
तदा कोटिगुणं पुण्यं केशवाल्लभते फलम्
यथा प्रबोधिनी पुण्या तथा यस्यां स्वपेद्धरिः
शयने बोधने चैव हरेस्तु परिवर्त्तने 211.
तस्मात्सर्वप्रयत्नेन द्वादशीं समुपोषयेत्
एकादशी सोमयुता कार्त्तिके मासि भामिनि
तस्यां यत्क्रियते भद्रे तदनन्तगुणं स्मृतम्
स्नात्वा देवे समभ्यर्च्य प्राप्नोति परमं फलम्
जलपूर्णं तथा कुंभं स्थापयित्वा विचक्षणः
तस्योपरि न्यसेन्मत्स्यस्वरूपं तु जनार्दनम्