तावकं दधिमिश्रं तु पात्रे औदुम्बरे स्थितम्
अरुन्धतीं बुधं चैव तथा सर्वान्महामुनीन्
एकाग्रमानसो भूत्वा यो नमस्येत्कृताञ्जलिः
द्विजं शुश्रूषते यस्तु तर्पयित्वातिभक्तितः 211.
विषुवेषु च योगेषु शुचिर्दत्त्वा पयो नरः
प्राचीनीग्रान्कुशान् कृत्वा स्थापयित्वा वृषं नरः
दक्षिणावर्त्तसव्येन कृत्वा प्राक्स्रोतसं नदीम्
दक्षिणावर्त्तशङ्खेन कृत्वा चैव करे जलम्
तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति
स्नात्वा कृष्णतिलैर्मिश्रा दद्यात्सप्ताञ्जलीर्नरः
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति
त्रिधा यस्तु नरः स्नायात्सर्वपापैः प्रमुच्यते
कार्त्तिकेऽमलपक्षे तु स्मृता ह्येकादशी तिथिः
या सा विष्णोः परा मूर्त्तिरव्यक्तानेकरूपिणी 211.
ये उपोष्यन्ति विधिवन्नारायणपरायणाः
एकादशीं समाश्रित्य पुरा पृष्टो महेश्वरः
धरण्युवाच ब्रह्मस्वहरणे युक्ता तथा ब्राह्मणघातकाः
गुरुद्रोहरता देव मित्रद्रोहरतास्तथा
परद्रव्यापहरणे संसक्ताश्च सुरेश्वर
दाम्भिका भिन्नमर्यादा नायमस्तीति वादिनः
एतैश्चान्यैश्च पापैश्च संसक्ता ये नरा विभो
श्रीवराह उवाच रहस्यं ते प्रवक्ष्यामि लोकानां हितकाम्यया
महापातकयुक्ता ये नराः सुकृतवर्जिताः
या सा विष्णोः परा शक्तिरव्यक्तानेकरूपिणी 211.
तामुपोष्य नरा भद्रे महापापरताश्च ये
उपायोऽतःपरो नान्यो विद्यते हि वसुन्धरे
यथा शुक्ला तथा कृष्णा ह्युपोष्या सा प्रयत्नतः
तस्मात्सर्वप्रयत्नेन कर्त्तव्या द्वादशी सदा
मनसा वचसा चैव कर्मणा समुपार्जितम्
दहन्तीह पुराणानि भूयोभूयो वरानने