सम्पूर्णौ विमलौ सम्यग्भ्राजमानौ स्वतेजसा
वामनं ब्राह्मणं दृष्ट्वा वाराहं च जलोत्थितम्
नमस्येद्वै पयोभक्षः स पापेभ्यः प्रमुच्यते
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे पापनाशोपायनिरूपणं नाम दशाधिकद्विशततमोऽध्यायः
पुनः पापनाशोपायवर्णनम् एतच्छ्रुत्वा शुभं वाक्यं धर्मराजस्य नारदः
नारद उवाच धर्मराज महाबाहो पितृतुल्यपराक्रम
ब्राह्मणानां हितार्थाय यदुक्तं मे प्रदक्षिणम्
त्रयो वर्णा महाभाग यज्ञसामान्यभागिनः
यथैव सर्वसमता तव भूतेषु मानद
यथा कर्म हितं वाक्यं शूद्राणामपि कथ्यताम् अहं ते कथयिष्यामि चातुर्वर्ण्यस्य नित्यशः
यद्धितं धर्मयुक्तं च नित्यं भवति सुव्रत
करोति पापनाशार्थमिदं वक्ष्यामि तच्छृणु
यस्ताः शुश्रूषते भक्त्या स पापेभ्यः प्रमुच्यते
यावज्जीव कृतात्पापात्तत्क्षणादेव मुच्यते 211.
सर्वतीर्थफलं प्राप्य स पापेभ्यः प्रमुच्यते
सर्वपापकृतान्दोषान्दहत्याशु न संशयः
शिरसा प्रतिगृह्णाति स पापेभ्यः प्रमुच्यते
नमस्येत्प्रयतो भूत्वा स पापेभ्यः प्रमुच्यते
नमस्येत्प्रयतो भूत्वा स पापेभ्यः प्रमुच्यते
तस्य भानुः प्रसन्नश्च ह्यशुभं यत्समर्जितम्
तावकं दधिमिश्रं तु पात्रे औदुम्बरे स्थितम्
अरुन्धतीं बुधं चैव तथा सर्वान्महामुनीन्
एकाग्रमानसो भूत्वा यो नमस्येत्कृताञ्जलिः
द्विजं शुश्रूषते यस्तु तर्पयित्वातिभक्तितः 211.
विषुवेषु च योगेषु शुचिर्दत्त्वा पयो नरः
प्राचीनीग्रान्कुशान् कृत्वा स्थापयित्वा वृषं नरः
दक्षिणावर्त्तसव्येन कृत्वा प्राक्स्रोतसं नदीम्
दक्षिणावर्त्तशङ्खेन कृत्वा चैव करे जलम्
तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति
स्नात्वा कृष्णतिलैर्मिश्रा दद्यात्सप्ताञ्जलीर्नरः