ततोऽप्यल्पतरश्चेत्स्यादुपायो योगवित्तम
दुष्करं पूर्वमुक्तं हि योगधर्मस्य साधनम्
अल्पोपायकरं चैव सुखोपायं च सर्वशः
आत्मायत्ताश्च ये नित्यं न च विस्तारविस्तरः
कर्मणामशुभानां च विविधोत्पत्तिजन्मनाम्
यम उवाच तदहं भावयिष्यामि नमस्कृत्य स्वयम्भुवम्
लोकानां श्रेयसोऽर्थं तु पापानां तु विनाशनम्
कैवल्यमभिसम्पन्ने श्रद्दधानो भवेन्नरः 210.
प्राप्नुयादीप्सितान्कामान्पापैर्मुक्तो यथासुखम्
यस्तु कारयते रूपं शिशुमारं प्रजापतिम्
यदा तस्य शरीरस्थं सोमं पश्येत्समाहितः
ललाटे तूत्थितं दृष्ट्वा मुच्यते च स पातकैः
मनसा कर्मणा वाचा यत्किंचित्कलुषं कृतम्
वाङ्मनोभिः कृतानां तु पापानां विप्रमोक्षणम्
तदा स दुष्कृतान्सर्वान्विनाशयति मानवः
ध्यायेत ह्यक्षयं यस्तु स पापेभ्यः प्रमुच्यते
सौम्यरूपो यदा चन्द्रः कुरुते च प्रदक्षिणाम्
तदा निर्मलतां याति चन्द्रमाः शारदो यथा 210.
जघनस्थं शुचिर्दृष्ट्वा नरश्चन्द्रमसं मुने
आर्द्रस्थमार्द्रकर्मा तु ध्यात्वा चाष्टशताक्षरम्
सम्पूर्णौ विमलौ सम्यग्भ्राजमानौ स्वतेजसा
वामनं ब्राह्मणं दृष्ट्वा वाराहं च जलोत्थितम्
नमस्येद्वै पयोभक्षः स पापेभ्यः प्रमुच्यते
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे पापनाशोपायनिरूपणं नाम दशाधिकद्विशततमोऽध्यायः
पुनः पापनाशोपायवर्णनम् एतच्छ्रुत्वा शुभं वाक्यं धर्मराजस्य नारदः
नारद उवाच धर्मराज महाबाहो पितृतुल्यपराक्रम
ब्राह्मणानां हितार्थाय यदुक्तं मे प्रदक्षिणम्
त्रयो वर्णा महाभाग यज्ञसामान्यभागिनः
यथैव सर्वसमता तव भूतेषु मानद
यथा कर्म हितं वाक्यं शूद्राणामपि कथ्यताम् अहं ते कथयिष्यामि चातुर्वर्ण्यस्य नित्यशः