स्वर्गः शुभफलप्राप्तिर्निरयः पापसंभवः
नारद उवाच शुभस्येह भवेदवृद्धिरशुभस्य क्षयोऽपि वा
मनसा कर्मणा वापि तपसा चरितेन वा
यम उवाच कीर्त्तयिष्यामि ते सम्यक्पापदोषक्षयं सदा
प्रणम्य शिरसा सम्यक्पापपुण्यकराय च
येन सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्
यः समः सर्वभूतेषु जितात्मा शान्तमानसः
तत्त्वार्थं वेत्ति यः सम्यक्पुरुषं प्रकृतिं तथा 210.
गुणागुणपरिज्ञाता ह्यक्षयस्य क्षयस्य च
स्वदेहे परदेहे च सुखदुःखेन नित्यशः
अहिंस्रः सर्वभूतेषु तृष्णाक्रोधविवर्जितः
प्राणायामैश्च निर्गृह्य त्वधः सन्धारणानि च
निराशः सर्वतस्तिष्ठेदिष्टार्थेषु न लोलुपः
श्रद्दधानो जितक्रोधः परद्रव्यविवर्जकः
गुरुशुश्रूषया युक्तस्त्वहिंसानिरतश्च यः
प्रशस्तानि च यः कुर्यादप्रशस्तानि वर्जयेत्
योऽभिगच्छति तीर्थानि विशुद्धेनान्तरात्मना
उत्थाय ब्राह्मणं गच्छेन्नरो भक्त्या समन्वितः 210.
नारद उवाच उपपन्नं च युक्तं च तत्त्वया समुदाहृतम्
विविधैः कारणोपायैः सम्यक्तत्त्वार्थदर्शितैः
ततोऽप्यल्पतरश्चेत्स्यादुपायो योगवित्तम
दुष्करं पूर्वमुक्तं हि योगधर्मस्य साधनम्
अल्पोपायकरं चैव सुखोपायं च सर्वशः
आत्मायत्ताश्च ये नित्यं न च विस्तारविस्तरः
कर्मणामशुभानां च विविधोत्पत्तिजन्मनाम्
यम उवाच तदहं भावयिष्यामि नमस्कृत्य स्वयम्भुवम्
लोकानां श्रेयसोऽर्थं तु पापानां तु विनाशनम्
कैवल्यमभिसम्पन्ने श्रद्दधानो भवेन्नरः 210.
प्राप्नुयादीप्सितान्कामान्पापैर्मुक्तो यथासुखम्
यस्तु कारयते रूपं शिशुमारं प्रजापतिम्