दिव्येऽस्मिन् सदसि ब्रह्मन् ब्रह्मर्षिगणसंवृते
स्वकर्म भुज्यते तात सम्भूतैर्यत्कृतं स्वयम्
वायुना भाविता संज्ञा संसारे सा दृढीकृता
अभिघाताभिभूतस्तु आत्मनात्मानमुद्धरेत्
बन्धुं बन्धुपरिक्लेशं निर्मितं पूर्वकर्मभिः
मिथ्याप्रवृत्तः शब्दोऽयं जगद्भ्रमति सर्वशः
यथा यथा क्षयं याति ह्यशुभं पुरुषस्य वै
संसारे प्राप्तदोषस्य जायमानस्य देहिनः 210.
शुभाशुभकरीं बुद्धिं लभते पौर्वदैहिकीम् क्लेशक्षयं पापहरं शुभं कर्म करोत्यथ
शुभाशुभं नरः प्राप्य कर्माकर्म तथैव च
स्वर्गः शुभफलप्राप्तिर्निरयः पापसंभवः
नारद उवाच शुभस्येह भवेदवृद्धिरशुभस्य क्षयोऽपि वा
मनसा कर्मणा वापि तपसा चरितेन वा
यम उवाच कीर्त्तयिष्यामि ते सम्यक्पापदोषक्षयं सदा
प्रणम्य शिरसा सम्यक्पापपुण्यकराय च
येन सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्
यः समः सर्वभूतेषु जितात्मा शान्तमानसः
तत्त्वार्थं वेत्ति यः सम्यक्पुरुषं प्रकृतिं तथा 210.
गुणागुणपरिज्ञाता ह्यक्षयस्य क्षयस्य च
स्वदेहे परदेहे च सुखदुःखेन नित्यशः
अहिंस्रः सर्वभूतेषु तृष्णाक्रोधविवर्जितः
प्राणायामैश्च निर्गृह्य त्वधः सन्धारणानि च
निराशः सर्वतस्तिष्ठेदिष्टार्थेषु न लोलुपः
श्रद्दधानो जितक्रोधः परद्रव्यविवर्जकः
गुरुशुश्रूषया युक्तस्त्वहिंसानिरतश्च यः
प्रशस्तानि च यः कुर्यादप्रशस्तानि वर्जयेत्
योऽभिगच्छति तीर्थानि विशुद्धेनान्तरात्मना
उत्थाय ब्राह्मणं गच्छेन्नरो भक्त्या समन्वितः 210.
नारद उवाच उपपन्नं च युक्तं च तत्त्वया समुदाहृतम्
विविधैः कारणोपायैः सम्यक्तत्त्वार्थदर्शितैः