तस्य नानदतो ज्वालाः श्रोत्रेभ्यो निर्ययुस्तदा । तत्र भूतानि वेताला उच्छ्रुष्माः प्रेतपूतनाः ।। २१.
कूष्माण्डा यातुधानाश्च सर्वे प्रज्वलिताननाः । उत्तस्थुः कोटिशस्तत्र नानाप्रहरणावृताः ।। २१.
ते दृष्ट्वा भूतसंघाता विविधायुधपाणयः । ससर्ज वेदविद्याङ्गं रथं परमशोभनम् ।। २१.
तस्मिन्नृगादयस्त्वश्वास्त्रितत्त्वं च त्रिवेणुकम् । त्रिपूजकं त्रिषवणं धर्माक्षं मारुतध्वनिम् ।। २१.
अहोरात्रे पताके द्वे धर्माधर्मे तु दण्डके । शकटं सर्वविद्याश्च स्वयं ब्रह्मादिसारथिः ।। २१.
गायत्री च धनुस्तस्य ओङ्कारो गुण एव च । स्वराः सप्त शरास्तस्य देवदेवस्य सुव्रत ।। २१.
एवं कृत्वा स सामग्रीं देवदेवः प्रतापवान् । जगाम दक्षयज्ञाय कोपाद् रुद्रः प्रतापवान् ।। २१.
गच्छतस्तस्य देवस्य अम्बराङ्गिरसं नयत् । ऋत्विजां मन्त्रनिचयो नष्टो रुद्रागमे तदा ।। २१.
विपरीतमिदं दृष्ट्वा तदा सर्वे च ऋत्विजः । ऊचुः संनह्यतां देवा महद् वो भयमागतम् ।। २१.
कश्चिदायाति बलवानसुरो ब्रह्मनिर्मितः । यज्ञभागार्थमेतस्मिन् क्रतौ परमदुर्लभम् ।। २१.
एवमुक्तास्ततो देवा ऊचुर्मातामहं तदा । दक्ष तात किमत्रास्मत्कार्यं ब्रूहि विवक्षितम् ।। २१.
दक्ष उवाच । गृह्यन्तां द्रुतमस्त्राणि संग्रामोऽत्र विधीयताम् । एवमुक्ते तदा देवैर्विविधायुधधारिभिः । रुद्रस्यानुचरैः सार्धं महद्युद्धं प्रवर्तितम् ।। २१.
तत्र वेतालभूतानि कूष्माण्डा ग्रहपूतनाः । युयुधुर्लोकपालैश्च नानाशस्त्रधराणि च ।। २१.
देवा रौद्राणि भूतानि निरसन्तो यमालयम् । चिक्षिपुः सायकान् घोरानसींश्च सपरश्वधान् ।। २१.
भूतान्यपि मृधे धोराण्युल्मुकैरस्थिभिः शरैः । जग्मुर्देवान् मृधे रोषाद् रुद्रस्य पुरतो बलात् ।। २१.
ततस्तस्मिन् महारौद्रे संग्रामे भीमरूपिणि । रुद्रो भगस्य नेत्रे तु बिभेदैकेषुणा मृधे ।। २१.
रुद्रस्य शरपातेन नष्टनेत्रं भगं तदा । दृष्ट्वाऽस्य क्रोधात् तेजस्वी पूषा रुद्रमयोधयत् ।। २१.
सृजन्तमिषुजालानि पूषणं तु महामृधे । दृष्ट्वा रुद्रोऽस्य दन्तांस्तु चकर्षं परवीरहा ।। २१.
तस्य दन्तांस्तदा दृष्ट्वा पूष्णो रुद्रेण पातितान् । दुद्रुवुः वसवो दिक्षु रुद्रास्त्वेकादश द्रुतम् ।। २१.
तान् भग्नान् सहसा दिक्षु दृष्ट्वा विष्णुः प्रतापवान् । आदित्यावरजो वाक्यमुवाच स्वबलं तदा ।। २१.
क्व यात पौरुषं त्यक्त्वा दर्पं माहात्म्यमेव च । व्यवसायं कुलं भूतिं कथं न स्मर्यते द्रुतम् ।। २१.
परमेष्ठिगुणैर्युक्तो लघुवद्भीतितः पुरा । नमस्कं कुरुते मोघं पृथिव्यां पद्मजः स्वयम् ।। २१.
एवमुक्त्वा गरुत्मन्तमारुरोह हरिस्तदा । शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ।। २१.
ततो हरिहरं युद्धमभवल्लोमहर्षणम् । रुद्रः पाशुपतास्त्रेण विव्याध हरिमोजसा । हरिर्नारायणास्त्रेण रुद्रं विव्याध कोपवान् ।। २१.
नारायणं पाशुपतमुभेऽस्त्रे व्योम्नि रोषिते । युयुधाते भृशं दिव्यं परस्परजिघांसया । दिव्यं वर्षसहस्त्रं तु तयोर्युद्धमभूत् तदा ।। २१.
तत्रैकं मुकुटोद्बद्धं मूर्द्धन्यं जटजालकम् । एकं प्रध्मापयच्छङ्खमन्यडुमरुकं शुभम् ।। २१.
एकं खङ्गकरं तत्र तथाऽन्यं दण्डधारिणम् । एकं कौस्तुभदीप्ताङ्गमन्यं भूतिविभूषितम् ।। २१.
एकं गदां भ्रामयति द्वितीयं दण्डमेव च । एकं शोभति कण्ठस्थैर्मणिभिस्त्वस्थिभिः परम् । एकं पीताम्बरं तत्र द्वितीयं सर्पमेखलम् ।। २१.
एवं तौ स्पर्द्धिनावस्त्रौ रौद्रनारायणात्मकौ । अन्योऽन्यातिशयोपेतौ तदालोक्य पितामहः ।। २१.
उवाच शाम्यतामस्त्रौ स्वस्वभावेन सुव्रतौ । एवं ते ब्रह्मणा चोक्तौ शान्तभावं प्रजग्मतुः ।। २१.