मौने मौना भवेद्या तु स्थिते तिष्ठति या स्वयम्
एकदृष्टिरेकमना भर्त्तुर्वचनकारिणी
देवानामपि सा साध्वी पूज्या परमशोभना
वर्त्तमानापि विप्रेन्द्र प्रत्याख्यातापि वा सदा
सा न मृत्युमुखं याति एवं या स्त्री पतिव्रता
अनुवेष्टनभावेन भर्त्तारमनुगच्छति 209.
एष माता पिता बन्धुरेष मे दैवतं परम्
पतिव्रता तु या साध्वी तस्यां चाहं कृताञ्जलिः
भर्त्तारमनुशोचन्ती मृत्युद्वारं न पश्यति
न शृणोति न पश्येद्या मृत्युद्वारं न पश्यति
नान्यं या मनसा पश्येन्मृत्युद्वारं न पश्यति
पतिं न त्यजते चित्तान्मृत्युद्वारं न पश्यति
गृहं मार्जयते नित्यं मृत्युद्वारं न पश्यति
शौचाचारसमायुक्ता सापि मृत्युं न पश्यति
वर्त्तते च हिते भर्त्तुर्मृत्युद्वारं न पश्यति
मानुषाणां च भार्या वै तत्र देशे तु दृश्यते 209.
मया तस्मात्तु विप्रर्षे यथावृत्तं यथाश्रुतम्
इति श्रीवराहपुराणे संसारचक्रे पतिव्रतामाहात्म्यंनाम नवाधिकद्विशततमोऽध्यायः
पुनः पतिव्रतामाहात्म्यवर्णनम् रहस्यं धर्ममाख्यानं त्वयोक्तं तु महायशः
इदं हि सर्वभूतेषु परं कौतूहलं मम
ये नरा दुःखसन्तप्तास्तपस्तीव्रं समाश्रिताः
मनसा निश्चितात्मानस्त्यक्त्वा सर्वप्रियाप्रियम्
श्रुता लोके श्रुतिस्तात श्रेयोधर्मा हि नित्यशः
कस्यैतच्चेष्टितं तात कर्त्ता कारयितापि वा
कं वा द्वेषं पुरस्कृत्य मतिस्तस्य प्रवर्त्तते
यद्येवं तु मया गुह्यं दुर्विज्ञेयं सुरैरपि
नारदेनैवमुक्तस्तु धर्मराजो महामनाः
यम उवाच त्वदुक्त्या मे कथयतः शृणुष्वावहितोऽनघ ।। 210.
न कश्चिद्दृश्यते लोके कर्त्ता कारयितापि वा
यस्य वै कीर्त्त्यते नाम येन चाज्ञाप्यते जगत्