कुरुष्व दयितं क्षेत्रं यथा मनसि वर्त्तते
उपानहौ च छत्रं च दिव्यालंकार भूषितम् 208.
उपभोक्तुं सुखस्यार्थं सुपुण्यस्य विशेषतः
एवमुक्त्वा तु भगवांस्तथा तत्कृतवान् क्वचित्
ततः साप्यायिता देवी तोयेन शुभलक्षणा
देवी दृष्ट्वा तदाश्चर्यं विस्मयोत्फुल्ललोचना
एतन्मे संशयं राजन्कथयस्व तपोधन एष देवो महादेवि विवस्वान्नाम नामतः
तवानुकम्पया देवि मुक्त्वाकाशमिहागतः
करवाण्यस्य कां प्रीतिं ज्ञायतामस्य वाच्छितम्
विज्ञापयामास तदा भगवन् किं करोमि ते
अभयं मे महाराज स्त्रीभ्यो भवतु मानद
तां प्रियां प्रीतहृदयां श्रावयंस्तस्य भाषितम् 208.
प्रीत्या परमया युक्ता तस्य राज्ञो मनःप्रिया
इमौ चोपानहौ दत्त्वा चौभौ पादस्य शङ्करौ
एवं पतिव्रतां विप्र पूजयामि नमामि च
इति श्रीवराहपुराणे संसारचक्रे पतिव्रतोपाख्यानं नाम अष्टाधिकद्विशततमोऽध्यायः
अथ पतिव्रतामाहात्म्य वर्णनम् कर्मणा केन राजेन्द्र तपसा वा तपोधनाः
एवमुक्तस्तु धर्मात्मा नारदेनाब्रवीत्तदा न तस्य नियमो विप्र तपो नैव च सुव्रत
उपवासो न दानं वा न देवो वा महामुने
प्रसुप्ते या प्रस्वपिति जागर्ति विबुधे स्वयम्
मौने मौना भवेद्या तु स्थिते तिष्ठति या स्वयम्
एकदृष्टिरेकमना भर्त्तुर्वचनकारिणी
देवानामपि सा साध्वी पूज्या परमशोभना
वर्त्तमानापि विप्रेन्द्र प्रत्याख्यातापि वा सदा
सा न मृत्युमुखं याति एवं या स्त्री पतिव्रता
अनुवेष्टनभावेन भर्त्तारमनुगच्छति 209.
एष माता पिता बन्धुरेष मे दैवतं परम्
पतिव्रता तु या साध्वी तस्यां चाहं कृताञ्जलिः
भर्त्तारमनुशोचन्ती मृत्युद्वारं न पश्यति
न शृणोति न पश्येद्या मृत्युद्वारं न पश्यति