आयसं त्रापुषं ताम्रं राजतं कांचनं तथा
ननु पश्याम्यहं देवि किंचिद्धैमं न चायसम्
एवमुक्ता महादेवी तेन राज्ञा सुशोभना 208.
गच्छ राजन्यथाकाममनुयास्यामि पृष्ठतः
ततो राजा च देवी च क्षेत्रं मृगयतस्तदा
इदं भद्रं मम क्षेत्रमास्स्वात्र वरवर्णिनि
अहं छिनद्मि वै देवि त्वमेताञ्छोधय प्रिये
एवमुक्ता महादेवी तेन राज्ञा तपोधन
वृक्षोऽत्र दृश्यते पार्श्वे सौवर्णो गुल्म एव च
कथं क्षेत्रं करिष्यावो हृद्रोगस्य तु कारकम्
अस्मिन्वापि कृतं कर्म कथं गुणकरं भवेत्
शुभं सानुनयं वाक्यं भूतानां गुणवत्सलः
पानीयस्य तु पार्श्वेन सन्निकृष्टेन सुन्दरि 208.
अयं गृहो महादेवि न च बाधाऽत्र कस्यचित्
वियन्मध्ये तथोग्रश्च सविता तपते सदा
प्रवृद्धो दारुणो घर्मः कालश्चैवातिदारुणः
स्निग्धौ ताम्रतलौ पादौ तस्यां सन्तापमागतौ
सूर्यस्य पादा मध्याह्ने तापयन्त्यग्निसन्निभाः
तृषितास्मि महाराज भृशमुष्णेन पीडिता
इत्युक्त्वा पतिता देवी विह्वला दुःखपीडिता
यदृच्छया पतन्त्या तु सूर्यः कोपेन वीक्षितः
दिवं मुक्त्वा महातेजाः पतितो धरणीतले
किमर्थमिह तेजस्विंस्त्यक्त्वा मण्डलमागतः 208.
एवं ब्रुवन्तं राजानं सूर्यः सानुनयोऽब्रवीत्
ततोऽहं पतितो राजंस्तव कार्यानुशासनः
पृथिव्यां स्वर्गलोके वा न काचिदिह दृश्यते
अहो धैर्यं च शक्तिश्च तवैवं शंसिता गुणाः
अनुरूपा विशुद्धा च तपसा च वराङ्गना
सदृशी ते महाभाग शक्रस्येव यथा शची
अनुरूपः सुरूपो वा यतो जातः सुयन्त्रितः