जगृहुर्यज्ञभागान् स्वान् यावत् ते हविषोर्पितान् । तावत्कालं जलात् सद्य उत्तस्थौ ब्रह्मणः पुनः ।। २१.
रुद्रः कोपोद्भवो यस्तु पूर्वं मग्नो महाजले । स सहस्त्रार्कसंकाशो निश्चक्राम जलात् ततः ।। २१.
सर्वज्ञानमयो देवः सर्वदेवमयोऽमलः । प्रत्यक्षदर्शी सर्वस्य जगतस्तपसा बभौ ।। २१.
तस्मिंस्तु काले पञ्चानां जातः सर्गो नरोत्तम । दिव्यानां पृथिवीस्थानां चतुर्णामरजातिनाम् ।। २१.
रौद्रसर्गस्य संभूतिस्तदा सद्योऽपि जायते । इदानीं रुद्रसर्गं त्वं श्रृणु पार्थिवसत्तम ।। २१.
दशवर्षसहस्त्राणि तपश्चीर्त्वा महज्जले । प्रतिबुद्धो यदा रुद्रस्तदा चोर्वों सकाननाम् । दृष्ट्वा सस्यवतीं रम्यां मनुष्यपशुसंकुलाम् ।। २१.
शुश्राव च तदा शब्दानृत्विजां दक्षसद्मनि । आश्रमे यज्ञिनां चोच्चैर्योगस्थैरिति कीर्त्तितम् ।। २१.
ततः श्रुत्वा महातेजाः सर्वज्ञः परमेश्वरः । चुकोप सुभृशं देवो वाक्यं चेदमुवाच ह ।। २१.
अहं पूर्वं तु कविना सृष्टः सर्वात्मना विभुः । प्रजाः सृजस्वेति तदा वाक्यमेतत् तथोक्तवान् ।। २१.
इदानीं केन तत्कर्म कृतं सृष्ट्यादिवर्णनम् । एवमुक्त्वा भृशं कोपान्ननाद परमेश्वरः ।। २१.
तस्य नानदतो ज्वालाः श्रोत्रेभ्यो निर्ययुस्तदा । तत्र भूतानि वेताला उच्छ्रुष्माः प्रेतपूतनाः ।। २१.
कूष्माण्डा यातुधानाश्च सर्वे प्रज्वलिताननाः । उत्तस्थुः कोटिशस्तत्र नानाप्रहरणावृताः ।। २१.
ते दृष्ट्वा भूतसंघाता विविधायुधपाणयः । ससर्ज वेदविद्याङ्गं रथं परमशोभनम् ।। २१.
तस्मिन्नृगादयस्त्वश्वास्त्रितत्त्वं च त्रिवेणुकम् । त्रिपूजकं त्रिषवणं धर्माक्षं मारुतध्वनिम् ।। २१.
अहोरात्रे पताके द्वे धर्माधर्मे तु दण्डके । शकटं सर्वविद्याश्च स्वयं ब्रह्मादिसारथिः ।। २१.
गायत्री च धनुस्तस्य ओङ्कारो गुण एव च । स्वराः सप्त शरास्तस्य देवदेवस्य सुव्रत ।। २१.
एवं कृत्वा स सामग्रीं देवदेवः प्रतापवान् । जगाम दक्षयज्ञाय कोपाद् रुद्रः प्रतापवान् ।। २१.
गच्छतस्तस्य देवस्य अम्बराङ्गिरसं नयत् । ऋत्विजां मन्त्रनिचयो नष्टो रुद्रागमे तदा ।। २१.
विपरीतमिदं दृष्ट्वा तदा सर्वे च ऋत्विजः । ऊचुः संनह्यतां देवा महद् वो भयमागतम् ।। २१.
कश्चिदायाति बलवानसुरो ब्रह्मनिर्मितः । यज्ञभागार्थमेतस्मिन् क्रतौ परमदुर्लभम् ।। २१.
एवमुक्तास्ततो देवा ऊचुर्मातामहं तदा । दक्ष तात किमत्रास्मत्कार्यं ब्रूहि विवक्षितम् ।। २१.
दक्ष उवाच । गृह्यन्तां द्रुतमस्त्राणि संग्रामोऽत्र विधीयताम् । एवमुक्ते तदा देवैर्विविधायुधधारिभिः । रुद्रस्यानुचरैः सार्धं महद्युद्धं प्रवर्तितम् ।। २१.
तत्र वेतालभूतानि कूष्माण्डा ग्रहपूतनाः । युयुधुर्लोकपालैश्च नानाशस्त्रधराणि च ।। २१.
देवा रौद्राणि भूतानि निरसन्तो यमालयम् । चिक्षिपुः सायकान् घोरानसींश्च सपरश्वधान् ।। २१.
भूतान्यपि मृधे धोराण्युल्मुकैरस्थिभिः शरैः । जग्मुर्देवान् मृधे रोषाद् रुद्रस्य पुरतो बलात् ।। २१.
ततस्तस्मिन् महारौद्रे संग्रामे भीमरूपिणि । रुद्रो भगस्य नेत्रे तु बिभेदैकेषुणा मृधे ।। २१.
रुद्रस्य शरपातेन नष्टनेत्रं भगं तदा । दृष्ट्वाऽस्य क्रोधात् तेजस्वी पूषा रुद्रमयोधयत् ।। २१.
सृजन्तमिषुजालानि पूषणं तु महामृधे । दृष्ट्वा रुद्रोऽस्य दन्तांस्तु चकर्षं परवीरहा ।। २१.
तस्य दन्तांस्तदा दृष्ट्वा पूष्णो रुद्रेण पातितान् । दुद्रुवुः वसवो दिक्षु रुद्रास्त्वेकादश द्रुतम् ।। २१.
तान् भग्नान् सहसा दिक्षु दृष्ट्वा विष्णुः प्रतापवान् । आदित्यावरजो वाक्यमुवाच स्वबलं तदा ।। २१.