साब्रवीत्तु विमानस्था साधयन्ती शुभाङ्गना
पतिव्रतोवाच मैवमीर्षां कुरुष्व त्वं ब्राह्मणेषु तपस्विसु अचिन्त्याः सर्वभूतानां ब्राह्मणा वेदपारगाः
ब्राह्मणाः सततं पूज्या ब्राह्मणाः सर्वदेवताः 208.
त्वया शुभाशुभं कर्म नित्यं पूजा मनस्विनाम्
प्रयाता गगने दृष्टा विद्युत्सौदामिनी यथा
अब्रवीन्नारदस्तत्र धर्मराजं तथागतम्
नारद उवाच या त्वया पूजिता राजन् हितमुक्त्वा गता पुनः
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे
यम उवाच एषा मया यथा तात पूजितापि च कृत्स्नशः
पुरा कृतयुगे तात निमिर्नाम महायशाः
तस्य पुत्रो मिथिर्नाम जननाज्जनकोऽभवत्
सा चाप शुभकर्माणि पतिभक्ता पतिव्रता
सोऽपि राजा महाभागः सर्वभूतहिते रतः 208.
य इमां पृथिवीं सर्वां धर्मेण परिपालयन्
ववर्ष सततं देवस्तस्य राष्ट्रे महाद्युतेः
न कश्चिद् दृश्यते मर्त्यो रुजार्त्तो दुःखितोऽपि वा
उवाच राज्ञी विप्रेन्द्र विनयात्प्रश्रितं वचः
राज्ञ्युवाच यदस्ति द्रविणं किंचित्पृथिव्यां यद्गृहे च ते
विनियुक्तं तु तत्सर्वं सान्निध्यं तु तथा त्वया
नास्ति तन्नियमः कश्चित्पुष्पमूल्यं च नास्ति नः
न चैव वार्षिकः कश्चिद्विद्यते भाजनस्य च
यत्कर्तव्यं मया वापि तन्मे ब्रूहि नराधिप
राजोवाच न च पश्याम्यहं देवि तव चैव जनस्य च ।। 208.
तद्ब्रवीमि यथाशक्त्या यदि मे मन्यसे प्रिये
कुद्दालेन हि काष्ठेन क्षेत्रं वै कुर्महे प्रिये
एवमुक्ता ततो राज्ञी राजानमिदमब्रवीत्
देव्युवाच अश्वानां च गजानां च सैरिभानां तथैव च
उष्ट्राणां महिषाणां च खराणां च महायशाः
राजोवाच सर्वकर्माणि कुर्वन्ति ये भृत्या मे वरानने
बलीवर्दाः खरा अश्वा गजा उष्ट्रा ह्यनेकशः