यम उवाच यन्मया हीदृशं दृष्टं श्रूयतां तन्महामुने
यायावरास्तु ये विप्रा उञ्छवृत्तिपरायणाः
अतिथिप्रियकाश्चैव नित्ययुक्ता जितेन्द्रियाः
न च मामुपतिष्ठन्ति न चैव वशगा मम 208.
दिव्यगन्धैर्विलिप्ताङ्गा माल्यभूषितवाससः
मृत्यो तिष्ठसि कस्यार्थे को वा मृत्युः कथं भवेत्
लोभासक्तान्सदा हंसि पापिष्ठान्धर्मवर्जितान्
निग्रहानुग्रहौ नापि मया शक्यौ महात्मनाम्
एतस्मिन्नन्तरे तत्र विमानेन महाद्युतिः
महता तूर्यघोषेण सम्प्राप्ता प्रियदर्शना
साब्रवीत्तु विमानस्था साधयन्ती शुभाङ्गना
पतिव्रतोवाच मैवमीर्षां कुरुष्व त्वं ब्राह्मणेषु तपस्विसु अचिन्त्याः सर्वभूतानां ब्राह्मणा वेदपारगाः
ब्राह्मणाः सततं पूज्या ब्राह्मणाः सर्वदेवताः 208.
त्वया शुभाशुभं कर्म नित्यं पूजा मनस्विनाम्
प्रयाता गगने दृष्टा विद्युत्सौदामिनी यथा
अब्रवीन्नारदस्तत्र धर्मराजं तथागतम्
नारद उवाच या त्वया पूजिता राजन् हितमुक्त्वा गता पुनः
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे
यम उवाच एषा मया यथा तात पूजितापि च कृत्स्नशः
पुरा कृतयुगे तात निमिर्नाम महायशाः
तस्य पुत्रो मिथिर्नाम जननाज्जनकोऽभवत्
सा चाप शुभकर्माणि पतिभक्ता पतिव्रता
सोऽपि राजा महाभागः सर्वभूतहिते रतः 208.
य इमां पृथिवीं सर्वां धर्मेण परिपालयन्
ववर्ष सततं देवस्तस्य राष्ट्रे महाद्युतेः
न कश्चिद् दृश्यते मर्त्यो रुजार्त्तो दुःखितोऽपि वा
उवाच राज्ञी विप्रेन्द्र विनयात्प्रश्रितं वचः
राज्ञ्युवाच यदस्ति द्रविणं किंचित्पृथिव्यां यद्गृहे च ते
विनियुक्तं तु तत्सर्वं सान्निध्यं तु तथा त्वया
नास्ति तन्नियमः कश्चित्पुष्पमूल्यं च नास्ति नः