यम उवाच शुभाशुभानां गतयो द्रष्टुं वा प्रष्टुमेव वा
किंचिन्मात्रं प्रवक्ष्यामि येन यत्प्राप्यते नरैः
रहस्यमिदमाख्यानं श्रूयतां मुनिसत्तम
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः
ज्ञानविज्ञानमारोग्यं रूपसौभाग्यसम्पदः
एवं प्राप्नोति पुण्येन मौनेनाज्ञां महामुने
अहिंसया परं रूपं दीक्षया कुलजन्म च 207.
पयोभक्ष्या दिवं यान्ति जायते द्रविणाढ्यता
गवाद्याः कालदीक्षाभिर्ये तु वा तृणशायिनः
क्रतुयष्टा दिवं याति चोपहारं च सुव्रत
रसानां प्रतिसंहारात् सौभाग्यमनुजायते
गन्धमाल्यनिवृत्त्या तु मूर्त्तिर्भवति पुष्कला
छत्रप्रदानेन गृहं वरिष्ठं रथं ह्युपानद्युग सम्प्रदानात्
पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती
पुष्पोपगन्धं च फलोपगंधं यः पादपं स्पर्शयते द्विजाय
वस्त्रान्नपानीयरसप्रदानात् प्राप्नोति तानेव रसप्रदानात्
दत्त्वा द्विजेभ्यः स भवेत्सुरूपो रोगांश्च कांश्चिल्लभते न जातु 207.
स स्त्रीसमृद्धं गजवाजिपूर्णं लभेदधिष्ठानवरं वरिष्ठम्
गजं तथा गोवृषभप्रदानैः स्वर्गे सुखं शाश्वतमामनन्ति
क्षौद्रेण नानारसतृप्ततां च दीपप्रदानाद्द्युतिमाप्नुवन्ति
पायसेन वपुःपुष्टिं कृसरात्स्निग्धसौम्यताम्
रथैर्दिव्यं विमानं तु शिबिकां चैव मानवः
अभयस्य प्रदानेन सर्वकामानवाप्नुयात्
इति श्रीवराहपुराणे संसारचक्रे पुरुषविलोभनं नाम सप्ताधिकद्विशततमोऽध्यायः
अथ पतिव्रतोपाख्यानवर्णनम् मुहूर्त्तस्य तु कालस्य दिव्याभरणभूषितान्
ब्राह्मणास्तपसा सिद्धाः सपत्नीकाः सबान्धवाः
विवर्णवदनो राजा प्रभातेजोविवर्जितः
तं तथा निष्प्रभं दृष्ट्वा धर्मराजं तपोधनः
अपि त्वं भ्राजमानस्तु पशोः पतिरिवापरः
विनिःश्वसन्यथा नागः कस्मात्त्वं परितप्यसे