अमरत्वं कथं याति व्रतेन नियमेन च
अतुलां च श्रियं लोके कीर्त्तिं च सुमहत्फलम्
केन गच्छन्ति नरकं पापिष्ठं लोकगर्हणम्
यम उवाच बन्धांश्च सुबहूंस्तत्र प्राप्नुवन्ति तपोधन
विस्तरेण तु तत्सर्वं ब्रवीमि मुनिसत्तम
नाग्निचिन्नरकं याति न पुत्री न च भूमिदः
पतिव्रता न गच्छन्ति सत्यवाक्याश्च ये नराः 207.
अहिंसका न गच्छन्ति ब्रह्मचर्यव्यवस्थिताः
स्वदारनिरता दान्ताः परदारविवर्जकाः
न गच्छन्ति तु तं देशं पापिष्ठं तमसावृतम्
ज्ञानवन्तो द्विजा ये च ये च विद्यां पराङ्गताः
न गच्छन्त्यत्र दातारः सर्वभूतहिते रताः
तिलान् गां च हिरण्यं च पृथिवीं चापि शाश्वतीम्
यथोक्तं यजमानाश्च सत्रयाजिन एव च
गुरुचित्तानुपालाश्च कृतिनो मौनयन्त्रिताः
मां न पश्यन्ति ते चैव स्वात्मभावेन भाविताः
ब्राह्मणा अमरत्वं च प्राप्नुवन्ति न संशयः 207.
न गच्छन्ति हि तद्धोरं यत्र ते पापकर्मिणः
नारद उवाच किं वा कर्म महत्कृत्वा स्वर्गलोके महीयते
रूपं वा धनधान्यं वा ह्यायुश्च कुलमेव वा
यम उवाच शुभाशुभानां गतयो द्रष्टुं वा प्रष्टुमेव वा
किंचिन्मात्रं प्रवक्ष्यामि येन यत्प्राप्यते नरैः
रहस्यमिदमाख्यानं श्रूयतां मुनिसत्तम
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः
ज्ञानविज्ञानमारोग्यं रूपसौभाग्यसम्पदः
एवं प्राप्नोति पुण्येन मौनेनाज्ञां महामुने
अहिंसया परं रूपं दीक्षया कुलजन्म च 207.
पयोभक्ष्या दिवं यान्ति जायते द्रविणाढ्यता
गवाद्याः कालदीक्षाभिर्ये तु वा तृणशायिनः
क्रतुयष्टा दिवं याति चोपहारं च सुव्रत