क्रीडन्ति विविधैर्भोगैर्भोगेषु च सहस्रशः
भक्ष्याणां विविधानां च भोजनानां च संचयात्
अपश्यन्विविधास्तत्र स्त्रियश्च शुभलोचना 206.
उद्यानेषु तथा चान्या भवनेषु च पुण्यतः
अहो सूत्रकृतं शिल्पमहोरत्नैरलंकृतम्
ततस्तु निखिलं सम्यग्दृष्ट्वा कर्म महोदयम्
इति श्रीवराहपुराणे संसारचक्रे शुभकर्मफलोदयो नाम षडधिकद्विशततमोऽध्यायः
अथ संसारचक्रपुरुष विलोभनप्रकरणम् इदमन्यन्महाभागान्नारदात्कलहप्रियात्
तथा च पृच्छतस्तस्य पुरावृत्तं महात्मनः
यथा च जनको राजा कामान्दिव्यानवाप्तवान्
अयं तत्र महातेजा नारदो मुनिसत्तमः
तत्र राजाऽथ वेगेन तं दृष्ट्वा स्वयमागतम्
उवाच च महातेजाः सूर्यपुत्रः प्रतापवान्
सर्वज्ञः सर्वदशीं च सर्वधर्मविदां वरः
वयं पूताश्च मेध्याश्च त्वां दृष्ट्वा ह्यागतं विभो
यत्कार्यं येन वा कार्यं यद्वै मनसि वर्त्तते
दुर्ल्लभं त्रिषु लोकेषु यच्च प्रियतरं तव 207.
इति धर्मवचः श्रुत्वा नारदः प्राह धर्मवित्
नारद उवाच सत्येन तपसा क्षान्त्या धैर्येण च न संशयः
भावज्ञश्च कृतज्ञश्च त्वदन्यो न हि विद्यते
अमरत्वं कथं याति व्रतेन नियमेन च
अतुलां च श्रियं लोके कीर्त्तिं च सुमहत्फलम्
केन गच्छन्ति नरकं पापिष्ठं लोकगर्हणम्
यम उवाच बन्धांश्च सुबहूंस्तत्र प्राप्नुवन्ति तपोधन
विस्तरेण तु तत्सर्वं ब्रवीमि मुनिसत्तम
नाग्निचिन्नरकं याति न पुत्री न च भूमिदः
पतिव्रता न गच्छन्ति सत्यवाक्याश्च ये नराः 207.
अहिंसका न गच्छन्ति ब्रह्मचर्यव्यवस्थिताः
स्वदारनिरता दान्ताः परदारविवर्जकाः
न गच्छन्ति तु तं देशं पापिष्ठं तमसावृतम्