बहुसुन्दरनारीके कुले जन्म समाप्नुयात्
एष वा यातु नः पार्श्वमस्मै पूजां प्रयच्छथ
गोरसस्य तु पूर्णानि भाजनानि सहस्रशः 206.
ततः पश्चादयं यातु यत्र लोकोऽनसूयकः
बहुसुन्दरनारीभिः सेव्यमानो महातपाः
इदमेवापरं चैव चित्रगुप्तस्य भाषितम्
अमृतं धारयन्त्यश्च प्रचरन्ति महीतले
पवित्रं च पवित्राणां पुष्टीनां पुष्टिरेव च
दघ्ना हि त्रिदशाः सर्वे क्षीरेण च महेश्वरः
सकृद्दत्तेन प्रीयन्ते वर्षाणां हि त्रयोदश
पंचगव्येन पीतेन वाजिमेधफलं लभेत्
thumb|गौ दन्तेषु मरुतो देवा जिह्वायां तु सरस्वती
सर्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने 206.
अपाने सर्वतीर्थानि प्रस्रावे जाह्नवी नदी
ऋषयो रोमकूपेषु गोमये पद्मधारिणी
धैर्यं धृतिश्च शान्तिश्च पुष्टिर्वृद्धिस्तथैव च
विद्या शान्तिर्मतिश्चैव सन्ततिः परमा तथा
यत्र गावो जगत्तत्र देवदेवपुरोगमाः
सर्वरूपेषु ता गावस्तिष्ठन्त्यभिमतास्तथा
स्त्रियश्च पुरुषाश्चैव रक्षन्तश्च सुयन्त्रिताः
क्रीडन्ति विविधैर्भोगैर्भोगेषु च सहस्रशः
भक्ष्याणां विविधानां च भोजनानां च संचयात्
अपश्यन्विविधास्तत्र स्त्रियश्च शुभलोचना 206.
उद्यानेषु तथा चान्या भवनेषु च पुण्यतः
अहो सूत्रकृतं शिल्पमहोरत्नैरलंकृतम्
ततस्तु निखिलं सम्यग्दृष्ट्वा कर्म महोदयम्
इति श्रीवराहपुराणे संसारचक्रे शुभकर्मफलोदयो नाम षडधिकद्विशततमोऽध्यायः
अथ संसारचक्रपुरुष विलोभनप्रकरणम् इदमन्यन्महाभागान्नारदात्कलहप्रियात्
तथा च पृच्छतस्तस्य पुरावृत्तं महात्मनः
यथा च जनको राजा कामान्दिव्यानवाप्तवान्