क्षितिप्रदो द्विजातिभ्यो ह्ययं यातु त्रिविष्टपम् 205.
विविधैः कामभोगैस्तु सेव्यमानो नरोत्तमः
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे शुभाशुभफलानुकीर्त्तनं नाम पञ्चाधिकद्विशततमोऽध्यायः
अथ शुभकर्मफलोदय प्रकरणम् चित्रगुप्तस्य सन्देशो वदतो यो मया श्रुतः
इमं सर्वातिथिं दान्तं सर्वभूतानुकम्पकम्
मुञ्च मुञ्च महाभृत्य चैष धर्मस्य निर्णयः
मम स्थास्यन्ति पार्श्वेषु पापा वै विकृतास्तथा
दीयतामासनं दिव्यं तथान्यद्यानमेव च । अन्यान्यान्कामयेत्कामान्मनसा यानि चेच्छति
तत्तु शीघ्रं प्रदातव्यं धर्मराजस्य शासनात्
प्रेक्षतां च महाभागो भोक्तुं चैव सहानुगः
ततः स प्रवरैर्यानैः सानुगः सपरिच्छदः
देवानां भवनं यातु दैवतैरभिपूजितः
स कृतार्थः सदा लोके यत्रैषोऽभिप्रयास्यति 206.
नैककन्याप्रदातारं नैकयज्ञकृतं तथा
तत्रैष रमतां धीरः सहस्रमयुतं समाः
भूतानुकम्पको ह्येष क्रियतामस्य चार्च्चनम्
जायते तु ततः पश्चात्सर्वमानुषपूजितः
असकृद्येन दत्तानि तस्मै पूजां प्रयच्छथ
हस्तेन संस्पृशत्येष मृदुना शीतलेन च
महापद्मानि चत्वारि तस्मिंस्तिष्ठन्तु नित्यशः
बहुसुन्दरनारीके कुले जन्म समाप्नुयात्
एष वा यातु नः पार्श्वमस्मै पूजां प्रयच्छथ
गोरसस्य तु पूर्णानि भाजनानि सहस्रशः 206.
ततः पश्चादयं यातु यत्र लोकोऽनसूयकः
बहुसुन्दरनारीभिः सेव्यमानो महातपाः
इदमेवापरं चैव चित्रगुप्तस्य भाषितम्
अमृतं धारयन्त्यश्च प्रचरन्ति महीतले
पवित्रं च पवित्राणां पुष्टीनां पुष्टिरेव च
दघ्ना हि त्रिदशाः सर्वे क्षीरेण च महेश्वरः
सकृद्दत्तेन प्रीयन्ते वर्षाणां हि त्रयोदश