इति श्रीवराहपुराणे संसारचक्रे दूतप्रेषणं नाम चतुरधिकद्विशततमोऽध्यायः
अथ शुभाशुभ फलानुकीर्तनवर्णनम् इदमन्यत्पुरा विप्राः श्रूयतां तस्य भाषितम्
अयं तु भवतां यातु यातु स्वर्गं महीक्षिताम्
अयं नागो भवेच्छीघ्रमयं तु परमां गतिम्
क्लिश्यतो रुदतश्चैव वदतश्च पुनःपुनः
दारत्यागी त्वधर्मिष्ठः पुत्रपौत्रविवर्जितः
मुच्यतां त इमे सर्वे ह्यतीतानागतास्तथा
आगमे च विपत्तौ च सर्वधर्मानुपालकाः
बहुसुन्दरनार्यङ्के ह्याद्ये परमधार्मिकम्
त्रिविष्टपे परिक्लेशो वासो ह्यस्याक्षयो भवेत्
ब्राह्मणार्थे गवार्थे वा राष्ट्रार्थे निधनङ्गतः 205.
तत्र वैमानिको भूत्वा कल्पमेकं निवत्स्यति
बहुदानरतो नित्यं सर्वभूतानुकम्पकः
अस्मै पूजा भवेद्देया मयादिष्टा महात्मने
प्रेतवासं समुत्सृज्य हीतो यातु त्रिविष्टपम्
शङ्खतूर्यनिनादेन तत्र वै विजयेन च
अयं गच्छतु भद्रं चापीन्द्रदेशं दुरासदम्
गुणैश्च शतसंख्याकैः शक्र एनं प्रतीक्षते
तावत्स मोदते स्वर्गे यावद्धर्मोऽनुमीयते
रत्नवेणुप्रदश्चैव सर्वधर्मैरलंकृतः
अयं यातु महाभागो देवदेवं सनातनम् 205.
सर्वशक्त्या समेतेन द्विजेभ्य उपपादिताः
तेन कल्पं वसिष्यन्ति रुद्रकल्पा मनोरमाः
तेन दत्तं द्विजातिभ्यो मधुखण्डपुरःसरम्
तरुणी क्षीरसम्पन्ना गौः सुवर्णयुता शुभा
अस्य लेख्यं मया दृष्टं तिस्रः कोट्यस्त्रिविष्टपे
सुवर्णस्य प्रदाता च त्रिदशेभ्यो निवेद्यताम्
तत्रैष वै महातेजा यथेष्टं काममाप्नुयात्
प्रयातु पितृभिः सार्द्धं तर्पिता येन पूर्वजाः
अयं भद्रो महाकामं सर्वभूतहिते रतः