किं त्वं वदसि गर्ह्यं च मुहूर्त्तं परिपालय
पतिव्रतेति साध्वीति रहस्यं भाषसे पुनः
आनीयते कथं ज्ञात्वा भोक्तुकामं कथं हरे
धार्मिका यूयमेवात्र अहमेको नृशंसवत्
शीघ्रं त्वं भव सर्पो हि व्याघ्रस्त्वं च सरीसृपः 204.
नरकानुगतस्त्वं हि व्याधिभूतः समाश्रयः ज्वरो भव महाघोरो जले ग्राहो दुरासदः
वातव्याधिस्तथा घोरस्तथैव त्वं जलोदरः
विभ्रमस्त्वं भवेच्छीघ्रं विष्टम्भश्च पुनर्भव
यथाकालं यथादृष्टं तावत्कालोऽत्र तिष्ठतु
यूयं च कृतकर्माणस्ततो मोक्षमवाप्स्यथ
वराज्ञा धर्मराजस्य या मया समुदाहृता
त्रिरात्रं वै चतूरात्रं षड्रात्रं दशरात्रकम्
क्षपयित्वा यथाकालं ततो मोक्षमवाप्स्यथ
यस्मिन्यस्मिंस्तु कालेऽहं यावतश्च श्रयाम्यहम् 204.
विनियोगा मया सूक्ता यथापूर्वं यथाश्रुतम्
यत्नात्तथा तु कर्त्तव्यं भवद्भिर्मम शासनात्
तस्माद्यात ऋषिभ्यश्च स्त्रीभ्यश्चैव महाबलाः
यथावाच्यं च कुरुत यथा कालो न गच्छति
मयाज्ञप्ता विशेषेण मृत्युना सह सङ्गतः
यथाब्रवीत्स्वयं रुद्रो यथा शक्रः शचीपतिः
इति श्रीवराहपुराणे संसारचक्रे दूतप्रेषणं नाम चतुरधिकद्विशततमोऽध्यायः
अथ शुभाशुभ फलानुकीर्तनवर्णनम् इदमन्यत्पुरा विप्राः श्रूयतां तस्य भाषितम्
अयं तु भवतां यातु यातु स्वर्गं महीक्षिताम्
अयं नागो भवेच्छीघ्रमयं तु परमां गतिम्
क्लिश्यतो रुदतश्चैव वदतश्च पुनःपुनः
दारत्यागी त्वधर्मिष्ठः पुत्रपौत्रविवर्जितः
मुच्यतां त इमे सर्वे ह्यतीतानागतास्तथा
आगमे च विपत्तौ च सर्वधर्मानुपालकाः
बहुसुन्दरनार्यङ्के ह्याद्ये परमधार्मिकम्
त्रिविष्टपे परिक्लेशो वासो ह्यस्याक्षयो भवेत्