तेषामपत्यं न भवेत्तद्रूपं च सुलक्षणम्
संसारे च यथा पक्वं कृपणं भैरवस्वनम्
रूपतो गुणतो हीनो बलतः शीलतस्तथा
कर्मान्तकारका ह्येते तृणीभूता भवन्ति ते 203.
कर्मकल्याणकृच्छ्रेषु भृशं चापि विमुह्यति
यद्यत्कुर्वन्ति ते कर्म सर्वत्र क्षयभागिनः
यत्किञ्चिदशुभं कर्म तस्मिन्देशे समुच्छ्रितम्
सुवृष्ट्यामपि तेषां वै क्षेत्रं तं तु विवर्जयेत्
न सुखं नापि निर्वाणं तेषां मानुषता भवेत्
स्तेयकर्मप्रयुक्तानां मुक्त्वा क्लेशपरम्पराम्
तिर्यङ्मानुषदेहेषु यान्ति विक्षिप्तमानसाः
तांस्तेनैव प्रदानेन संग्रहेत्तु ग्रहेण वा
प्रसह्य वा प्रकृत्या वै ये चरन्ति कुलाङ्गनाः
शीलशौचादिसम्पन्नं ये जनं धर्मलक्षणम् 203.
निरयं पापभूयिष्ठा अनुभूय महाभयम्
कर्मक्षये यदा भूयो मानुष्यं यान्ति दारुणम्
वेश्यालङ्घककूटानां शौण्डिकानां तथैव च
निर्ल्लज्जपुण्ड्रकाः केचिद्बद्धपौरुषगण्डकाः
स्त्रीणां चानुप्रवृद्धा ये स्त्रीभोगपरिभोगिनः
तद्भावास्तत्कथालापास्तद्भोगाः परिभोगिनः
सौभाग्यपरमासक्ता नरा बीभत्सदर्शनाः
शारीरं मानसं दुःखं प्राप्नुवन्ति नराधमाः
अग्निक्षारनदीभ्यां तु प्राप्नुवन्ति न संशयः
सर्वं च निखिलं कार्यं यन्मया समुदाहृतम् ।। 203.
इति श्रीवराहपुराणे पापसमूहानुक्रमो नाम त्र्यधिकद्विशततमोऽध्याय
अथ दूतप्रेषणवर्णनम् इदं चैवापरं तस्य वदतो हि मया श्रुतम्
दूरेऽसाविति किं कार्यं न क्षयोऽस्त्यस्य कर्मणः
व्रीडितः किम्भवाञ्ज्ञातं किं तिष्ठति पराङ्मुखः
गच्छ गच्छ पुनस्तत्र शीघ्रं चैनमिहानय
किं त्वं वदसि दुर्बुद्धे विवाहस्तस्य वर्त्तते